अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1335, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५ उभयथापि च दोषात् ॥ १६ ॥ परमाणूनां रूपादिमत्त्वे तदभावे च दोषः । एकत्रानित्यत्वमन्यत्र कार्य- भाष्यप्रकाशः । रूपादिमत्त्वस्य सद्धेतुताया उपपादितत्वात् तेनैव षट्पार्श्ववत्त्वादीनामपि दोषनिरासात् तज्जन्या- नुमितेरविघातवाभिमानसैवाविघातवादिति ॥ १५ ॥ उभयथापि च दोषात् ॥ १६ ॥ प्रकारान्तरेणापि परमाणुकारणवादस्यासंगतिं व्युत्पादयतीत्याशयं स्फुटीकुर्वन्ति परमाणूनामित्यादि । परमाणूनां हि न स्वरूपतो भेदः । सर्वेषामेव ह्रस्वपरिमण्डलाकारत्वोपगमात् । नापि, भौतिकत्वे सति नित्यो गतिमान् परमाणुरिति लक्षणात् तत्तद्भौतिकत्वाद् भेदः । भूतानां पाश्चात्यत्वेन भौतिकत्त्वस्य पूर्वमशक्य- रश्मिः। सद्धेतुतेति न चाकारणवत्त्वहेतोः सत्प्रतिपक्षत्वेन नित्यत्वासाधकत्वम् । तथा रूपादिमत्त्व- हेतोरपि सत्प्रतिपक्षत्वेनानित्यत्वस्थूलत्वे अपि न सिद्ध्येतामिति वाच्यम् । अकारणवत्त्वस्य स्वरूपा- सिद्धत्वेन प्रतिपक्षत्वाभावात् । परमाणोर्ह्यणुककारणवत्त्वस्य विभागेन सृष्टिपक्षे उक्तत्वात् इति सद्धेतुतायाः । उपपादितेति तेषां मत इत्यारभ्येत्यर्थ इत्यन्तेनोपपादितत्वादित्यर्थः । तेनैवेति रूपादिगुणवत्त्वात्किंचिद्रूक्षत्वेनैव । दोषेति पक्षावृत्तित्वरूपो दोषस्तन्निरासात् । इति एकप्रकारसमाप्तौ ॥ १५ ॥ उभयथापि च दोषात् ॥ १६ ॥ परमाणूनां रूपादिमत्त्वे इत्येतावद्भाष्यं व्या- कुर्वन्ति स्म परमाणूनामित्यारभ्य आदर्तव्या इत्यन्तेन । तदर्थमत्र स्वरूपासिद्धिंवारणाय परमाणु- भेदरूपादिगुणयथायोग्यत्वमाहुः परमाणूनामित्यादिना । 'पक्षे व्याप्यत्वाभिमतस्याभावः स्वरूपा- सिद्धिः' यथा ह्रदो द्रव्यं धूमादित्यत्र । स्वरूपत इति परमाणुत्वेन रूपेणेति प्रयोगात्तस्य परमाणो रूपतः परमाणुत्वतोऽभेदः । सर्वेषामिति पार्थिवाप्यतैजसवायवीयानां परमाणूनाम् । पारिमा- ण्डल्यपदेन सर्वेषामविशेषेण व्यवहाराद्वक्ष्येत्यादिः । लक्षणादिति । भौतिकत्वस्य शब्देऽतिव्याप्ति- र्नित्यत्वे सति गतिमत्त्वस्य मनस्यतिव्याप्तिरतो विशेष्यविशेषणदले भौतिकत्वे सति नित्यत्वस्या- काशत्वे भौतिकत्वे सति गतिमत्त्वस्य शरीरेतिव्याप्तिरतो नित्यो गतिमानिति । तत्तदिति पृथिवीपरमाणुषु पृथिवीभूतसंबन्धित्वमेवमबादिपरमाणुषु द्रष्टव्यम् । पृथिव्यादिरूपनिरूपकभिन्न- भौतिकत्वादित्यर्थः । पूर्वमिति सृष्टेः पूर्वम् । अशक्येति । अनेन लक्षणेऽसंभवदोषोऽपि ज्ञेयः । आकाशमादायासंभववारणे तु मनस्यतिव्याप्तिः । न च भूतसमवेतत्वं भौतिकत्वम् । मनसस्तु न समवायो भूते किंतु संयोगो द्रव्यत्वादिति वाच्यम् । आकाशेऽपि भूतसमवायाभावे- नोक्तासंभवश्च स्यात् योग्यतामादाय लक्षणसमर्थने तु मनस्यतिव्याप्तिः । 'चन्द्रमा मनसो जातः' इति तेजोरूपभूतसमवायित्वयोग्यत्वान्मनसः । इष्टापत्तिर्मनसोणुत्वादिति चेन्न । परमाणुचातु- र्विध्यव्याहतेः । एतेन 'द्रव्यारम्भकतुर्यं स्यात्' इत्यपि प्रत्युक्तम् । न च द्रव्यारम्भकत्वं द्रव्य- समवायिकारणवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति पृथिव्यप्तेजोवायुषु द्रव्यारम्भकत्वं न मनसीति वाच्यम् । पारिभाषिकस्यास्य लक्षणस्य चन्द्रसमवायिनि मनस्यप्यक्षतेः । ननु भौतिकत्वं भूतसंबन्धित्वं भूताश्च परमाणवस्तत्संबन्धः समवायः स च नित्य इत्यपि न संभव इति चेन्न । बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वस्य भूतत्वेन प्रकृतेऽभावात् । आत्मावृत्तिविशेषगुणवत्त्वं भूतत्वं घट- 1227