अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1338, कुल 2600 में से
संदर्भ में पढ़ें५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ४ सू० १८ समुदाय उभयहेतुकेपि तदप्राप्तिः ॥ १८ ॥ (२-२-४) अतः परं बाह्यमतनिराकरणम् । ते समुदायद्वयं जीवभोगार्थं संहन्यत इति भाष्यप्रकाशः। अतः परमनूनविंशतिभिः सूत्रैर्बाह्यसमयो निराक्रियते । समुदाय उभयहेतुकेपि तदप्राप्तिः ॥ १८ ॥ ननु तदग्रे कया संगत्यैतन्मत- निराकरणमित्याकाङ्क्षायामाहुः अतः परमित्यादि । वैशेषिका ह्यर्धवैनाशिकाः । परमा- ण्वाकाशादिद्रव्याणामन्येषां च पदार्थानां नित्यत्वाङ्गीकारेऽपि कार्यद्रव्याणां केषांचिद् गुणानां च निरन्वयविनाशाङ्गीकारात् । निरन्वयध्वंसो नाम तप्तायःपतिताम्बिन्दोरिव निःशेषनाशः । सर्ववैनाशिकास्तु बाह्याः सर्वानित्यत्ववादिनः । तन्मते सर्वस्यैव निरन्वयध्वंसात् । तत्र निरा- [L11