अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1339, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५९ मन्यन्ते । परमाणुसमूहः पृथिव्यादिभूतसमुदाय एकः । रूपादिस्कन्धसमुदाय- आपरः । रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाः । तदुभयसंबन्धे भाष्यप्रकाशः । संहन्ता नाभ्युपेयते । यद्यपि प्रस्थानचतुष्टयप्रणेता बुद्ध एकस्तथापि शिष्यमतिभेदाच्चतुर्धा प्रणयनम् । तत्र ये हीनमतयस्ते सर्वास्तित्ववादिनस्ते तदाशयमनुरुध्य सर्वशून्यतायामवतार्यन्ते । ये मध्यमास्ते तु विज्ञानमात्रास्तित्वमनुरुध्य शून्यतायामवतार्यन्ते । ये पुनः प्रकृष्टमतयस्तेभ्यस्तु साक्षादेव शून्यता तत्त्वमुपदिश्यते । तदुक्तं बोधिचित्तविवरणे । 'देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायैर्बहुभिः पुनः ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाऽभिन्ना शून्यताऽद्वयलक्षणा' ॥