अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1344, कुल 2600 में से
संदर्भ में पढ़ें६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ४ सू० २० उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ उत्तरोत्पत्तिरपि न संभवति । उत्पन्नस्य खलूत्पादकत्वम् । अत उत्तरोत्पत्ति- समये पूर्वस्य नष्टत्वादुत्पत्तिक्षण एव स्थितिप्रलयकार्यकारणसर्वाङ्गीकारे विरोधा- देकमपि न स्यात् ॥ २० ॥ भाष्यप्रकाशः। यतेत । परमाणूनां बाह्यानामाभ्यन्तराणां च यः समूहस्तस्यापि स्थैर्याभावात् स्कन्धसमुदा- यानुपपत्तिश्च । अतः क्षणिकानामर्थानामुत्पत्तिमात्रनिमित्तत्वात् संतत्यङ्गीकारेऽपि संसारा- पवर्गव्यवस्थानादसङ्गतं पुञ्जस्य कारणत्वमित्यर्थः ॥ १९ ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ ननु यथा दीपज्वाला उत्पद्यमानैव संहन्यते विषयीभवति च तथा पदार्थान्तरमपि संहंस्यते विषयीभविष्यति चेति शङ्कायामुत्पत्तिमपि दूषयति [L1