अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1345, कुल 2600 में से
संदर्भ में पढ़ेंशंकराचार्यास्तु यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः स्थिरः संहन्ता क्षणिकवादिमते नास्ति, तथाप्यविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदना तृष्णोपादानभवजातिजरामरणशो- कपरिदेवनादुःखदौर्मनस्यस्तानामितरेतरकारणत्वेन चक्रवत् परिवृत्तेरुपपद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किंचिदपरमपेक्ष्यते । एते चाविद्यादयो भामत्यामेवं विवृताः । तथाहि । बुद्धेन संक्षेपतः प्रतीत्यसमुत्पादलक्षणमुक्तम् 'इदं प्रत्ययफलम्' इति । इदं परिदृश्यमानं प्रत्ययस्य वक्ष्यमाणलक्षणहेतुसमवायस्य फलं कार्यमित्यर्थः । 'उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितेवैषां धर्माणां धर्मता,' 'धर्मस्थिता धर्मनियामकता प्रतीत्यसमुत्पादानुलोमता' इति । अय पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां भवति, हेतुपनिबन्धतः, प्रत्ययोपनिबन्धतश्च । स पुनर्द्विधा । बाह्य आभ्यन्तरश्च । तत्र बाह्यस्य प्रतीत्यसमुत्पादस्यायं हेतुपनिबन्धः । यदिदं बीजादङ्कुरोऽ- ङ्कुरात् पत्रं पत्रात् काण्डं काण्डान्नालो नालाद् गर्भो गर्भाच्छूकं शूकात् पुष्पं पुष्पात् फल- मिति । असति बीजेऽङ्कुरो न भवति । एवमग्रेऽपि फलपर्यन्तं द्रष्टव्यम् । सति तु बीजेऽङ्कुरो भवति । एवमग्रेऽपि फलपर्यन्तम् । तत्र बीजस्य नैवं ज्ञानं भवति यदहमङ्कुरं निर्वर्तया- मीति । तथा अङ्कुरस्याप्येवं ज्ञानं न भवति यदहं बीजेन निर्वर्तित इति । एवं सर्वत्र । तस्मादसत्यपि चैतन्ये असत्यपि चान्यस्मिन्नधिष्ठातरि बीजादीनां कार्यकारणभावनियमो दृश्यते इत्युक्तो हेतुपनिबन्धः । अथ प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादस्योच्यते । तत्र प्रत्ययो नाम हेतूनां समवायः । हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति तेषामयनानां भावः प्रत्ययः समवाय सहानवस्थानलक्षणविरोधादित्यर्थः । शांकरेति, इतरेतरसूत्रे । संहन्ता संघातभावं प्राप्तः । अचि- द्येत्यादि व्याख्याताः व्याख्यास्यन्ते च । यात्रेति प्रवाहः । प्रतीत्येति इदं प्राप्यायं समुत्पाद इत्यस्य लक्षणम् । प्रतीत्येति ल्यबन्तम् । लक्षणसूत्रमाह इदमिति । परिदृश्यमानमिति कार्यम् । वक्ष्यमाणेति अत्रैवाग्रे वक्ष्यमाणस्य । कार्यमिति । न चेतनस्य कस्यचिदित्यर्थः । तथा चायं प्रतीत्यसमुत्पाद इत्यर्थः । अत्र कारणीभूतस्य हेतुपनिबन्धस्य संग्राहकं बुद्धसूत्रमुदाहरति उत्पा- दाद्वेति । तथागतानां बुद्धानां मते । धर्माणां कार्याणां कारणानां च या धर्मता कार्यकारण- भावरूपा उत्पादादनुत्पादाद्वा स्थिता । धत्त इति धर्मः कारणम्, ध्रियत इति धर्मः कार्यम्, यस्मिन्सति यदुत्पद्यते ह्यसति च नोत्पद्यते तत्तस्य कारणं कार्यं च । न चेतनः क्वचित्कार्यसिद्धयेऽपेक्षितव्य इत्यर्थः । स्थिता धर्मतेति पदद्वयं सूत्रकृत्स्वयमेव विभजते धर्मेति । कार्यस्य धर्मस्य कारणादनतिप्रसङ्गेन काल- विशेषे स्थितिर्भवतीति तत्प्रत्ययः । एतस्यार्थः धर्मनीति धर्मस्य कारणस्य धर्म प्रति नियम- कता । नन्वेवंविधमेव कारणत्वं चेतनादृते न सिद्ध्यति तत्राह प्रतीत्येति । सति कारणे प्रतीत्य तद्याप्य समुत्पादस्यानुलोमतानुसारिता या सैव धर्मता सा चोत्पादादनुत्पादाद्वा धर्मस्य स्थिता न चेतनः कश्चिदुपलभ्यत इत्यर्थः । सूत्रद्वयं व्याचष्टे अयेति । हेतूपेति हेतारेकस्य कार्येणोपनिबन्धः । प्रत्ययोपेति प्रत्ययानां मिलितानां नानाकारणानां कार्येणोपनिबन्धः । स इति प्रतीत्यसमुत्पादः । अयमिति यदिदमिति वक्ष्यमाणः । हेतुपनिबन्धे उदाहरणमुक्त्वा तेनैवोत्पादाद्वेति सूत्रं योजयित्वाऽनु- त्पादेत्यादि सूत्रांशं सोदाहरणं योजयति असतीति । एवमग्र इति असत्यङ्कुरे पत्रं न भवतीत्ये- वम् । एवमग्रेऽपीति सति त्वङ्कुरे पत्रं भवतीत्येवम् । अत्र चैतन्यं बीजादीनामभ्युपगम्यते किंवा तदतिरिक्तस्य कस्यचिद्भोक्तुः प्रशासितुर्वा, नाद्य इत्याह तत्र बीजस्येति । न द्वितीय इत्याह असत्य- पीति । प्रत्ययोपेति इण्धातोर्मत्वर्थीयाच्प्रत्ययान्तस्य रूपम् । प्रतीत्येति भाष्यस्यैव । अयना-