भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 135, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 135

मङ्गलसिद्धेरर्थान्तरस्य च पूर्वोक्तस्याभावाच्चान्न तत्कल्पनम् । अथावशिष्यते आनन्तर्ये वाऽधिकारे वेति । आनन्तर्ये त्वध्ययनस्य स्वतःसिद्धत्वादवधिकाकाङ्क्षा भवति । तथा सति तदभावान्न विचारः सिद्ध्येत् । भाष्यप्रकाशः । लोके । आनन्तर्ये यथा, भुक्त्वा अथ व्रजतीति । अर्थान्तरोपक्रमे यथा, पूर्वं किंचिदुक्त्वा पुन- र्विकल्पान्तरे क्रियमाण उच्यते, अथायमाशय इति । यद्यपि कोशे, ‘मङ्गलादनन्तरारम्भप्रश्नकात्स्न्यैष्वथो अथ’ इति ‘अथायो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकात्स्न्र्यारम्भसमुच्चये’ ॥ इत्यर्थान्तरमप्युक्तम् । गौडो भवान् अयेति ब्रूम इति प्रतिज्ञायामपि दृश्यते । तथापि प्रच्छकस्य संदेग्धुश्च कस्याप्यनुक्तत्वेन अथ शक्तोऽसि भोक्तुमित्यादिवत् प्रश्नसंशयव्यञ्जकवा- क्याभावेन च प्रश्नसंशययोर्वक्तुमशक्यत्वात् स्वसंशयस्य स्वतोमिवृत्त्यभावेन, स्वसंशयस्य, ‘अवि- ज्ञातं विजानताम्’ इति श्रुतेः कृत्स्नस्य ब्रह्मणो विचारयितुमशक्यत्वेन कात्स्न्यस्य च प्रकृतवि- रुद्धत्वाद् विकल्पस्य पक्षान्तरात्मकत्वेनारम्भस्योपक्रमात्मकत्वेन चार्थान्तरोपक्रमानतिरेकात् समु- च्चयनियमरूपाधिकारयोरप्यर्थान्तरसापेक्षत्वेन विकल्पतुल्यकक्षत्वादुपयुक्तविचारकात्स्न्यप्रतिज्ञयो- रपि प्रस्तावाव्यतिरेकादथशब्दोऽत्रार्थचतुष्टये संभावितो वर्तते । तत्रान्यार्थकृतस्य पटहमृदङ्गा- दिध्वनेरिवाथशब्दस्यापि श्रवणमात्रेण मङ्गलसिद्धेः स्मृतिव्याकोपपरिहारात् तस्याः स्वरूपश्रवण- रश्मिः । इत्याशङ्कायां अथशब्देन प्रकृतव्यवच्छेदोत्पत्तिसंयोगात्संज्ञया कर्मान्तरमिदमिति । एष इति तु प्रतिज्ञायमानकर्मान्तरवाचक इति । सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रे विशिष्य वक्तव्योयम् ‘श्रयाणा- मेव चैवमुपन्यासः प्रश्नश्च’ इति सूत्रे मध्वाचार्यैः । ‘अविज्ञातप्रार्थनं वा प्रश्न इत्यभिधीयते’ इति वाक्यात् अविज्ञातप्रार्थनं प्रश्नः । तुः प्रतिज्ञायमानकर्मान्तरवाचक इति । (तथा च एष याग इत्यर्थः ।) अथेत्यस्य अधिक्रियत इत्यर्थः । लोक इति छन्दोवत्सूत्राणि भवन्तीति, लोके इत्यसंगतमिति यद्यपि तथापि चतुर्थचरणे सांख्यास्यावैदिकत्वमुक्तं ‘एतेन योगः प्रत्युक्तः’ इति चोक्तमतो लोक इति संगतम् । आदिशब्दार्थो द्रष्टव्यः । अथ व्रजतीति भोजनानन्तरं व्रज- तीत्यर्थः । अथायमिति अर्थान्तरोपक्रमादयमाशय इत्यर्थः । तथा च एष याग इत्यर्थः । येषां यथायथमसंभवान्तर्भावाभ्यामवक्तव्यत्वमाहुः तथापीति । अथ शक्तोसीति । तृप्तं प्रति तृप्त्यनन्तरं भोक्तुं प्रवर्तमानं प्रति च वचनम् । प्रश्नसंशयेति परेच्छाप्रतिपत्तिफलं वाक्यं प्रश्नः । स्वरसतो अथशब्दस्य प्रश्नसंशयार्थताभानात् तद्व्यञ्जकवाक्येत्युक्तम् । स्वत इति प्रतिज्ञा- तसंशयविषयग्रन्थात् । स्वसंशयस्येति वक्तुमशक्यत्वादिति पूर्वेणान्वयः । ननु कृत्स्नार्थको अथशब्दो विचारान्वयी न तु ब्रह्ममात्रान्वयीत्यत आहुः उपयुक्तेति । तत्र श्रुतीत्यादि भाष्यं विवृण्वन्ति स्म तत्र अन्यार्थमिति । वृत्त्यान्यार्थम् । अथशब्दस्येति अधिकारार्थे कृतस्य । स्मृतीति शिष्टाचारप्राप्तस्मृतीत्यर्थः । स्वरूपेति स्वरूपं मङ्गलश्रवणविषयः तदेव मङ्गलम् । मात्रचा प्रतिपाद्यत्वयोगव्यवच्छेदः क्रियते, न तु प्रतिपाद्यत्वेन यन्मङ्गलं तदाचरणेन तन्मात्रं कार्य-