भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 136, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 136

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९ भाष्यप्रकाशः । मात्रकार्येत्वेन मङ्गलस्यार्थान्तरबोधनाप्रतिरोधकत्वाच्च न तन्मात्रकल्पनं युक्तम् । पूर्वं कस्या- प्यर्थस्यानुक्तत्वादर्थान्तरोपक्रमस्यापि कल्पनं न युक्तम् । यत् पुनरानन्तर्यप्रस्तावरूपमर्थद्वयमव- शिष्यते, तत्रानन्तर्यं यस्य कस्यचिदानन्तर्यं तु स्वभावादेव प्राप्तमिति, न तस्य वक्तव्यत्वम् । यदि च शाबरभाष्योक्तमध्ययनानन्तर्यमङ्गीक्रियते, नह्यनधीतवेदो विचारेऽधिकरोतीति । तदा तस्य विचारार्थकजिज्ञासापदेनैवार्थत् सिद्धेरथशब्दोक्तानन्तर्यप्रतियोगिनोऽधिकाकाङ्क्षा भवति, अध्ययनातिरिक्तात् कस्मादनन्तरं ब्रह्म विचारयितव्यमिति । तस्यां च सत्यामध्ययनाति- रिक्तस्य कस्यापि तन्मतेऽदर्शनान्न प्रकृतविचारसिद्धिरित्यर्थः । ननु 'संहतमेतच्छारीरकं जैमि- नीयेन षोडशलक्षणेने'ति वदद्भिः प्राचीनवृत्तिकारैर्द्वयोर्मीमांसयोरेकशास्त्रयमङ्गीकृतम् । तत- श्चाग्नेयादिषट्कभेदवदध्यायभेदवच्चावान्तरप्रमेयभेदेन भेदेऽपि प्रयोजनैक्याद्, 'अथाऽतो धर्म- जिज्ञासा' इत्यारभ्य 'अनावृत्तिः शब्दात्' इत्यन्तमेकं शास्त्रमतः कर्मविचारानन्तर्यमस्त्विति रामानुजाचार्याः । आराधणाराध्यभूतयोर्धर्मब्रह्मणोः प्रतिपादकत्वेनैकशास्त्र्यं । 'अथाऽतो ब्रह्मजिज्ञासा' इति पृथगारम्भस्त्वथातः शेषलक्षणमित्यादिवदवान्तरपरिच्छेदार्थ इति तदेकदेशी नन्यः शैवः । पूर्वं धर्मजिज्ञासा कार्या, पुरुषमात्रविषयत्वात् , ब्रह्मज्ञानं तु कस्यचिदेव मुमुक्षोरिति धर्मवि- चारानन्तरं चतुर्णां प्रतिपन्नाश्रामन्तराणां सा । 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति सूत्रयतः सूत्र- कारस्यापि ज्ञानकर्मसमुच्चयादेव मोक्षप्राप्तिरभिप्रेतेति ज्ञायते, अपरिज्ञाते, च कर्मणि केन समुच्चयः, केन नेति न ज्ञातुं शक्यम्, ज्ञाते तु तस्मिन् नित्यकाम्यनिषिद्धानां हेयोपादेयविभागविज्ञानात् काम्यनिषिद्धे हेये, नित्येन समुच्चय इति सुखेन ज्ञातुं शक्यते । किंच । तृतीये, कर्मसमृद्ध्यर्थाना- मुद्गीथाद्युपासनानां चिन्तनात् तेषां च कर्माधिकृतपुरुषमात्रविषयत्वात् कर्माविज्ञानेन तच्चिन्ताया अप्यनुपपत्तिरतोऽपि तदानन्तर्यमिति भट्टभास्कराचार्याः । रश्मिः । मवश्यं कार्यं यस्याः तत्त्वेन इत्यर्थः । अर्थान्तरेति । मङ्गलस्य विचारकर्तव्यतारूपे वाक्यार्थे कर्तृत्वादिनान्वयाभावादिति शंकरभाष्योक्तहेतुसंग्राहकश्चकारः । एवं मङ्गलविधिरधिकारपक्षेऽपीति ज्ञेयम् । मङ्गलस्य शक्यार्थत्वे वाक्यभेदश्च स्यात् । अर्थात्सिद्धेरिति आक्षेपात्सिद्धेरित्यर्थः । अथशब्दोक्तेति अथशब्दोक्तानन्तर्यनिरूपकस्येत्यर्थः । आकाङ्क्षास्वरूपमाहुः अध्ययनाति- रिक्तादिति । तथा सतीति भाष्यं विवृण्वन्ति स्म तस्यां चेति । कस्यापीति आनन्तर्य- निरूपकस्येत्यर्थः । षोडशलक्षणेनेति द्वादशलक्षणान्यध्यायः कर्मकाण्डे, चत्वारोऽध्यायाः उपा- सनाकाण्ड इत्येवं षोडशलक्षणेनेत्यर्थः । प्राचीनवृत्तिकारैरिति । बोधायनप्रभृतिभिरित्यर्थः । प्रमेयेति प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्यातिदेशविशेषातिदेशोहाबाधतन्त्रप्रसङ्गरूपप्रमेयं पूर्वतन्त्रे । उत्तरतन्त्रे तु समन्वयविरोधनिराकरणसाधनफलरूपमिति ज्ञेयम् । प्रयोजनेति आराधणाराध्यभूतयोर्धर्मब्रह्मणोः प्रतिपादनरूपप्रयोजनैक्यात् । एकशास्त्रयमिति तच्च पूर्वैकैक- शास्त्रनिष्ठम् । अथातः शेषलक्षणमिति इदं च पूर्वतन्त्रे तृतीयाध्यायस्यारम्भसूत्रम् । अवा- न्तर