भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 137, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 137

५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ तथा हि, न तावद्धर्मविचारानन्तर्यम् । विपर्ययसंभवात् । भाष्यप्रकाशः । किंच, 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' इति श्रुतौ तर्कोपकरणेन शब्देन परमा- त्मानं सम्यग् ज्ञात्वा प्रज्ञाख्यभावनाविधानात् , पतञ्जलिनाऽपि, 'स तु दीर्घकालादरनैरन्तर्यसत्का- राऽऽसेवितो दृढभूमिः'इति सूत्रयता दीर्घकालासेवितस्याव्यवधानासेवितस्य ब्रह्मचर्यतपःश्रद्धायज्ञा- दिरूपसत्कारारोवितस्य योगस्य दृढभूमित्वकथनाच्च क्रियमाणाया भावनाख्योपासनाया दृढत्वाय यज्ञोपयोगः कैश्चिदिष्यते । तत्तत्फलार्थे विहितानामपि कर्मणां, 'तमेतं वेदानुवचनेन' इत्यादिश्रुत्या, 'एकस्य तूभयत्वे संयोगपृथक्त्वम्'इतिन्यायेन क्रत्वर्थखादिरत्वस्य वीर्यार्थत्ववद्ब्रह्मभा