भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1350, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1350

७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० २० भाष्यप्रकाशः। विनाशमभ्युपगच्छतां वैनाशिकानां मते विनाशकारणसामग्रीसंनिध्यरूपस्य निरुध्यमानत्व- स्यानङ्गीकारेणाभावग्रस्तत्वरूपस्यैव निरुध्यमानत्वस्य सिद्धेः। अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्युच्यते । तदसङ्गतम् । तस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंब- न्धेन क्षणिकत्वप्रतिज्ञाभङ्गप्रसङ्गात् । अथाभाव एव व्यापारः । तदसत् । हेतुस्वभावानुपसक्तस्य फलोत्पादकत्वासंभवात् । स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वप्राप्तेः क्षणभङ्गत्त्यागप्रसङ्गात् । स्वभावोपरागं विनैव हेतुफलभावाभ्युपगमे च सर्वतः सर्वत्र सर्वदा सर्वोत्पत्तिप्रसङ्गात् । किंच उत्पादनिरोधौ किं वस्तुनः स्वरूपमुतावस्थान्तरं वस्त्वन्तरमेव वा । आद्ये वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः स्युः । तथा सति व्यवहारबाधप्रसङ्गः । न द्वितीयः । तथा सति वस्तुन आद्यन्तमध्यक्षणत्रयसंबन्धप्राप्त्या क्षणिकत्वत्यागप्रसङ्गात् । न तृतीयः । तथा सत्यश्वमहिषवत् परस्परसंसर्गरहित्याद् वस्तुनः शाश्वतिकत्वप्रसङ्गात् । यदि च वस्तुनो दर्शनादर्शने उत्पादनिरोधौ तदापि द्रष्टृधर्मत्वात् तौ न वस्तुधर्माविति वस्तुनः शाश्वति- कत्वप्रसङ्ग इत्यसंगतं सौगतं दर्शनमित्याहुः । भास्कराचार्यास्तु—अनुत्पन्नस्य शशविषाणतुल्यत्वादुत्पन्नविनष्टस्य चाभावग्रस्तत्वान्न हेतुत्वम् । अथ पूर्वक्षणविनाश उत्तरक्षणोत्पत्तिश्च युगपद्भवतां तुलान्तयोर्नामोन्नामवदिति । तदसत् । तुलाया मध्ये सूत्रधारणादन्तयोश्च युगपदुपस्थितयोरेकस्य गुरुत्वान्नामस्तद्धेतुकोन्नाम इति युक्तम् । अत्र तूत्तरोत्पत्तिकाले पूर्वस्थित्यनुपगमान्न हेतुत्वसंभवः । स्थित्युपगमे च रश्मिः। भावभूतः सङ्गतः । परिनिष्पन्नेति विनाशोन्मुखः । व्यापारेति क्षणेन क्षणः इति प्रत्यये तृतीयानिर्वाहकस्य व्यापारस्य कल्पनायाम् । हेतुत्वस्य सव्यापारनिर्व्यापारसाधारणत्वात् । क्षणान्तरेति व्यापाराश्रयस्य क्षणान्तरस्य संबन्धेन । व्यापार इति कार्योत्पादनानुकूलो हेतुव्यापारस्तस्य च पूर्वक्षणे नाशक्षणे सत्त्वादुपपन्नं नष्टस्यापि कारणत्वं, यागवत् । स व्यापारो हेतुस्वभावादतिरिक्तोऽनतिरिक्तो वा । आद्ये दोषमाहुः । अनुपसक्तत्वं हेतुस्वभावातिरिक्तत्वम् । फलोत्पादेति अतिप्रसङ्गात्तथा । द्वितीये दोषमाहुः स्वभावोपेति । फलं कार्यम् । क्षण- भङ्गेति हेतुस्वभावस्य द्वितीयक्षणे सत्त्वादस्य । सर्वदेति मृत्कुलालादिनाशकालेऽपि । सर्वो- त्पत्तीति । क्वचित्तु भाव एवास्य व्यापारः भाव उत्पत्तिस्तन्न । हेतुस्वभावानुपसक्तस्य फलो- त्पत्त्यसंभवात् । समवायिहेतुस्वभावस्य शुक्लरक्तत्वादिरित्येवं शंकराचार्यव्याख्यानम् । किंञ्चेति । निरोधो नाशः । अवस्थान्तरमिति उत्पादनिरोधशब्दाभ्यां स्थितिकालिकवस्तुन आद्य- न्तावस्थेऽवस्थेऽभिलप्येते इत्येवं वस्तुनः सकाशादुत्पादनिरोधयोर्विशेषोऽवस्थान्तरम् । व्यवहारेति वस्तुन उत्पादो वस्तुनो नाश इत्यपर्यायताबोधकस्य व्यवहारस्य बाधप्रसङ्गः । आद्यन्तेति । मध्यं स्थितिः । शाश्वतिकेति न ह्यश्वो महिषनाशको भवतीत्येवं निरोधाप्राप्त्या शाश्वतिकत्व- प्रसङ्गात् । द्रष्ट्रिति ज्ञानतदभावात्मकत्वेन तथात्वात् । ताविति । ज्ञानाज्ञानात्मकत्वेनोत्पाद- निरोधौ । आहुरिति शंकराचार्याः उत्तरोत्पादे पूर्वस्य निरोधाभावाच्च हेतुत्वं संभवतीत्यर्थमाहुः । अनुत्पन्नस्येति । उत्पन्नेति उत्पन्न एव द्वितीयक्षणे विनष्टः क्षणिकस्तस्येत्यर्थः । युगपद्भवने दृष्टान्तमाहुः तुलेति । तुलान्तयोरवयवयोः । अन्तयोरवयवयोः । तद्धेतुरिति स हेतुर्यस्य । 1242