अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1351, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। क्षणिकत्वहानिः। किंच कारणधर्माननुविधाने कार्यकारणभावकल्पनायामतिप्रसङ्गः। यतो मृद- न्विताः शरावादयः सुवर्णान्विताश्च कुण्डलादयो दृश्यन्ते। किंच आकारसमर्पणेऽपि न सामर्थ्यं तन्मते, वस्तुनः क्षणिकत्वात्। तस्मान्नित्यपक्ष एव कार्यकारणव्यवस्था युज्यते, न क्षणिक- पक्षे। प्रत्यक्षप्रत्यभिज्ञानाच्च कुम्भादीनां नित्यत्वमिति। ननु नित्यपक्षेऽपि कार्यकारणभावा- नुपपत्तिः क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्। किं कुसूलस्थो व्रीहिरङ्कुरजननस्वभावोऽथात- त्स्वभावः। यद्यन्त्यस्तदा न कदाचिदपि जनयेत्। यद्याद्यस्तदा तदानीमेवोत्पादयन् यानि कर्माणि व्रीहिणा कर्तव्यानि तानि युगपदेव कुर्यात्, न तु सामग्रीवशेन नाङ्कुरं जनयेत्। अत- त्स्वभावत्वे तत्स्वभावत्वे वा सामग्र्या अकिंचित्करत्वात्। न च प्रत्यभिज्ञानादपि नित्यत्वम्