अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1352, कुल 2600 में से
संदर्भ में पढ़ेंयोऽयमन्यो घटक्षणोऽभिमतो यतः कपालोत्पत्तिरिष्यते, स सदृशसंतानजननस्वभावो घटक्षण- त्वादीतानान्तरघटक्षणवदित्यनुमानात् । यदि चासौ विसदृशसंतानजननस्वभाव एवाभ्युपेयेत, तदा पूर्वक्षणाः विसदृशसंतानजननस्वभावाः । घटक्षणत्वादन्यक्षणवदित्यनुमानात् कुम्भकारा- दारभ्य कपालपङ्क्तिरेव स्यात् । एवं सति मुद्गरेण घटस्य सदृशसंतानजननस्वभावता नाश्यते विसदृशसंतानजननस्वभावता चोत्पाद्यत इत्यवश्यमभ्युपेतव्यम् । अन्यथा कपालोत्पत्त्यसंभवात् । ततश्च भवता सहेतुकं विनाशमभ्युपगच्छता विनाशस्य स्वाभाविकत्वविकल्पः परित्यक्तः । यदि विकल्पोऽङ्गीक्रियते विसदृशसंतानस्त्यक्तव्य इति सिद्धहानिर्दृष्टविरोधश्च । तत्र यथा तव सदृशसंतानजननस्वभावविनाशो मुद्गरेण क्रियते तथा ममापि घटविनाश एव क्रियते इति स्थितः सहेतुको विनाश इति । प्रत्यभि