भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1353, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1353

An accurate line-by-line transcription of the text in Unicode Devanagari:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ एका क्षणिकत्वप्रतिज्ञा । अपरा चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्ता उत्प- भाष्यप्रकाशः। असमानसंतानजननस्वभावत्वे पूर्वक्षणानामपि तथात्वप्रसङ्गः । अथ सहकारिवशादेवंभावः, स त्वस्माकमप्यविशिष्ट इति । किंच । विनाशोत्पादौ भावान्व्यतिरिक्तौ न वा । अन्त्ये भावस्यो- त्पत्तिस्थितिनाशक्षणत्रयसंसर्गप्रसङ्गः । आद्ये उत्पत्तिविनाशयोरभावो नित्यः स्यात् । किंच । विनाशो नाम अभावः । स किं भावस्य पूर्वभावी वा सहभावी वा पश्चाद्भावी वा, आद्ये भावोत्पत्तिरेव न स्यात् । द्वितीयेऽप्यविरोधाद्भावस्य शाश्वतिकत्वप्रसङ्गः । तृतीये तु तस्यापि सहेतुकत्वाद्भावः प्राप्नोतीति नित्यत्वप्रतिज्ञाभङ्ग इत्याहुः । रामानुजाचार्यास्तु-क्षणिकत्वपक्षे जगदुत्पत्तिर्न संगच्छते । पूर्वक्षणस्य विनष्टत्वेन तस्योत्तरक्षणं प्रति हेतुत्वानुपपत्तेः । अभावस्य हेतुत्वे सर्वत्र सर्वदा सर्वोत्पत्तिप्रसङ्गात् । अथ पूर्वक्षणवर्तित्वमेव हेतुत्वं, तर्हि कश्चिदेव घटक्षणस्तदुत्तरभाविनां सर्वेषां गोमहिषादीनामन्यदेश- वर्तिनामपि हेतुः स्यात् । अथैकजातीयस्यैव पूर्वक्षणवर्तिनो हेतुत्वं, तदापि सर्वदेशवर्तिनामुत्तर- क्षणभाविनां घटानां स एवैको हेतुः स्यात् । अथैकस्यैक एव हेतुस्तदापि कः कस्येति न ज्ञायते । अथ यो यस्मिन् देशे घटक्षणे स्थितः स तद्देशीयस्यैवोत्तरघटक्षणस्य हेतुः । तर्हि देशस्य स्थिर- त्वापत्त्या सर्वक्षणिकत्वप्रतिज्ञाहानिः । किंच । चक्षुरादिसंप्रयुक्तसार्थज्ञानोत्पत्तिकोले अन- वस्थितत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं स्यादित्याहुः । भाष्यान्तरे तु न किंचिदितोऽ- धिकम् । एतानि तु दूषणानि सूत्रेष्वेवाग्रे प्रसिद्ध्यन्तीत्याचार्यैर्भाष्य उपेक्षितानि ॥ २० ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ पूर्वसूत्रैः क्षणभङ्गवादोऽभिमता रश्मिः। जननस्वभाव एवाभ्युपेयते तदापि दोषमाहुः असमानति । पूर्वेति त्रयाणां क्षणानाम् । तथात्वेनेति समानसंतानजननस्वभावाभावप्रसङ्गः । तथा च व्रीहिरूपक्षणे स्वस्वरूपेऽसमानसंतान- जननान्नप्रत्यक्षविरोधः । सहकारीति पृथिव्यादिषड्धातुवशाद्ब्रीह्यादेरङ्कुरादिजननस्वभाव इति सह- कारिवशात् । अस्माकमिति कारणनित्यत्ववादिनाम् । अन्त्य इति व्यतिरिक्तपक्षे । भावस्येति क्षणिकत्वेनैकक्षणरूपस्य । नित्य इति अभावस्य नाशस्यानित्यत्वे उत्पत्तिनाशयोर्भावस्य नित्यत्वा- त्क्षणिकत्वभङ्गस्तस्मादभावो नाशो नित्यः स्यात्प्रतिज्ञाभङ्गको न तु क्षणिक इत्यर्थः । न स्यादिति । भावस्य तदा सत्त्वेन कार्योत्पत्तिप्रतिबन्धादिति भावः । ध्वंसस्य ध्वंसाभावात् । अविरोधादिति क्षणिक- त्वेन भावाभावयोरविरोधात् । य उत्पत्तिक्षणः स एव ध्वंसक्षण इति । सहेतुकत्वादिति हेतुस्तु यस्य नाशः सः । उत्तरोत्पादकाले पूर्वस्य हेतोर्निरोधाञ्ज्ञानाश्र्च पूर्वस्य हेतुत्वमिति सूत्रार्थमाहुः पूर्वेति । पूर्वस्य क्षणिकत्वेप्यव्याहतं हेतुत्वमिति शङ्कते अथेति । हेतुत्वमिति । गोमहिषादयस्तु विजातीया इति न घटक्षणस्तेषां हेतुरिति भावः । स्यादिति सजातीयत्वादिति भावः । घटक्षण इति यः इत्यस्य समानाधिकरणाद् घटक्षण इति प्रथमान्तं पदमिति प्रतिभाति घटरूपः क्षणः । सत इति तद्देशीयस्येत्यस्य विशेषणम् । संपातायातं वा । उत्तरोत्पादे चेति सूत्रस्थचकारार्थमाहुः तर्हीति । पूर्वक्षणोत्तरक्षणयोर्द्द्योरेकैकत्वात्स्थिरत्वम् । संप्रयुक्तत्वं संबद्धत्वम् । भाष्यान्तर इति माध्व- भाष्येऽस्त्यु कार्योत्पत्तावेव कारणस्य विनाशाश्चेतनविशेषकार्योत्पत्तिरित्युच्यते । अन्यमतानुवादस्य प्रयोजनमाहुः एतानीति ॥ २० ॥ १० ब्र० सू० २०