अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1354, कुल 2600 में से
संदर्भ में पढ़ें७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ४ सू० २१ द्यन्त इति । वस्तुनः क्षणान्तरसंबन्धे प्रथमप्रतिज्ञा नश्यति । असति द्वितीया । द्वितीया चेन्नाङ्गीक्रियते तदा प्रतिबन्धाभावात् सर्वं सर्वत एकदैवोत्पद्येत ॥ २१ ॥ भाष्यप्रकाशः। पुञ्जस्य कारणता निरस्ता । अतः परमसत्येव हेतौ फलोत्पत्तिरिति तदभ्युपगतमाकस्मिक- पक्षं दूषयति असतीत्यादि । तत्र कस्याः प्रतिज्ञाया उपरोध इत्याकाङ्क्षायां तां स्फुटीकर्तु- माहुः एका इत्यादि । एका स्फुटा । एतस्यामेवाभावस्य कारणताऽभ्युपगमः । अपरा त्वेवम् । आलम्बनप्रत्ययः, समनन्तरप्रत्ययोऽधिपतिप्रत्ययः, सहकारिप्रत्ययश्चेति चतुर्विधान् हेतून् प्राप्य चित्तं विज्ञानस्कन्धात्मकं, चैत्ता वेदनास्कन्धात्मका उत्पद्यन्ते । तत्रालम्बनप्रत्ययो नाम विषयः, तेन चित्तस्य नीलाद्याकारता । समनन्तरप्रत्ययः पूर्वविज्ञानं, तेन बोधरूपता । अधिपतिप्रत्यय इन्द्रियं, तेन रूपादिग्रहणप्रतिनियमः । सहकारिप्रत्यय आलोकादिः, तेन स्पष्टार्थता । एवं चतुर्भिर्हेतुभिर्नीलाद्याकारकविज्ञानात्मकं चित्तमुत्पद्यते । एवं चित्ताभिन्न- हेतुजानां सुखादीनां चैत्तानामेत एव चत्वारो हेतव इति द्वितीया प्रतिज्ञा । एतस्या अङ्गी- कारे हेतुभूतस्य वस्तुनो द्वितीयक्षणस्थित्या क्षणान्तरसंबन्धे क्षणिकत्वप्रतिज्ञा नश्यति । इदमत्र प्रसङ्गादुक्तम् । प्रस्तुतमाहुः असतीत्यादि । यदि चासत्येव हेतावभावादेव फलोत्पत्ति- रिष्यते तदा द्वितीया चतुर्विधान् हेतून् प्रतीत्येति प्रतिज्ञा नश्यति । तदिदमुक्तम् असति प्रतिज्ञोपरोध इति । यदि च क्षणिकत्वं स्थितमेवेति द्वितीया नाङ्गीक्रियते, तदा हेत्व- भावस्य सर्वत्र सुलभत्वेन प्रतिबन्धाभावात् सर्वं सर्वत उत्पद्येत, एकदैव चोत्पद्येतेति । तदिदमुक्तं यौगपद्यमन्यथेति । तथा चोभयथाप्यसंगतं सौगतं मतमित्यर्थः ॥ २१ ॥ रश्मिः। असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ निरस्तेति ब्रह्मणः समवायित्वस्य निरस्ता। दूषयतीति सूत्रकारः। तत्रेत्यादि असति उभयोः प्रतिज्ञयोः कस्याः। तामिति प्रतिज्ञाम्। अपरेत्यादिभाष्यं विवृण्वन्ति स्म अपरेति । प्राप्येति प्रतीत्य इत्यस्य विवरणम् । विज्ञानेति । एते स्कन्धा अधिकरणारम्भे व्याख्याताः चैत्यचैत्तचैतिकशब्दैर्व्यवह्रियन्ते । चित्तस्येति । यथा नीलविज्ञानस्य नीलं वस्त्वालम्बनप्रत्ययो विषयस्तेन नीलाद्याकारता चित्तस्य विज्ञानस्कन्धस्य । पूर्वविज्ञानमिति पूर्वस्य विज्ञानं यत्स्मरणमित्युच्यते संस्कारो वा । रूपादीति रूपादिग्रहणस्य प्रतिनियमः चक्षू रूपमेव गृह्णाति श्रोत्रं शब्दमेवेत्यादिनियमः । द्वितीयायां किंचित्कुर्वन्ति स्म एव- मिति, पूर्वोक्तप्रकारेण । वस्तुन इत्यादिभाष्यं विवृण्वन्ति स्म एतस्या इति । क्षणिकत्वप्रतिज्ञेति प्रथमप्रतिज्ञा इति भाष्यविवरणमिदम् । इदमत्रेति अत्र भाष्ये । प्रसङ्गादिति संगतिसामान्यलक्षणस्य प्रसङ्गघटितत्वात्सामान्यलक्षणसमन्वयाय । एवमुपोद्घातसंगतिमुक्त्वा प्रकृतं सूत्रार्थमाहुरित्यर्थः । तेनोपोद्घातः संगतिरिरिति सिद्धम् । असतीत्यादीति । असति द्वितीया प्रतिज्ञा नश्यति । हेतूनिति विषयादिरूपान् प्रतीत्य नामानं प्राप्य । इतीति इति सूत्रांशेन । (अत्र यद्यपि वस्तुनः क्षणान्तरसंबन्धे ऽसतीत्यर्थः संभवति तथाप्याकस्मिकपक्षदूषणस्यावश्यकत्वात्) भाष्ये सौत्रमन्यथाशब्दः द्वितीया चेदित्यादिना व्याख्यातं तद्भाष्यं विवृण्वन्ति स्म यदि चेति । स्थितमेवेति स्थितमेव । नाङ्गीति अनतिप्रयोजनत्वान्नाङ्गीक्रियते । अतियौक्तिकत्वात् । भाष्ये तदेत्यादिना सौत्रं यौगपद्यपदं व्याख्यातं तद्भाष्यं व्याकुर्वन्ति स्म तदा हेत्विति । उभयथेति सत्त्वेऽसत्त्वे च हेतौ ॥ २१ ॥ 1246