अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1355, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७५ प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥ अपि च वैनाशिकाः कल्पयन्ति । बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं चेति । त्रयं पुनर्निरोधद्वयमाकाशं च । तत्रेदानीं निरोधद्वयाङ्गीकारं दूषयति । प्रतिसंख्यानिरोधो नाम भावानां बुद्धिपूर्वको विनाशः । विपरीतोऽ- भाष्यप्रकाशः। प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥ एवं चतुःसूत्र्या तदुक्त- मुत्पत्तिप्रकारं दूषयित्वा तदुक्तं नाशप्रकारं दूषयति प्रतीत्यादि। तद् व्याकर्तुं पूर्वं तेषां मतमनुवदन्ति अपि चेत्यादि। वैनाशिकाः सर्वानित्यत्ववादिनः सौगताः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यद् भिन्नं यत् तत् संस्कृतं पूर्वपूर्वविज्ञानजैः संस्कारैरालयत्वेन व्यव- हारयोग्यम्। यच्च क्षणिकं तदपि। एवं पञ्चपदार्थाः। त्रयं त्वत्र स्फुटम् । आकाशस्वरूपं तद्दूषणसूत्रे वाच्यम् । तत्र क्षणिकं संस्कृतं च पूर्वसूत्रेषु दूषितम्। आकाशं चाग्रे दूषणीयमिती- दानीं निरोधद्वयाङ्गीकारं दूषयति । तयोः स्वरूपमाहुः प्रतिसंख्यानिरोध इत्यादि । प्रतिकूला संख्या प्रतिसंख्या सन्तमिमममन्तं करोमीत्याकारकतया भावप्रतीपा या बुद्धिः सा प्रतिसंख्या । तत्पूर्वको विनाशः प्रतिसंख्यानिरोधः । विपरीत्तस्तादृशबुद्धिं विनापि जाय- मानोऽप्रतिसंख्यानिरोध इति वाचस्पतिमिश्राः। तदत्राप्युक्तम्। सहेतुकः स्थूलो विनाशः पूर्वः, सूक्ष्मः स्वाभाविकोध्वितीय इति भास्कराचार्याः । मुद्रराभिघाताद्यनन्तरभावितयोपलब्धिद्योगी सदृशसंताना वसानरूपः स्थूलो यो रश्मिः। प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥ प्रसङ्गसंगत्यावतारयन्ति एवमिति । दूषयतीति सूत्रकारः । वैनाशिका इति व्याख्येयम्। बुद्धिबोध्येत्यादिभाष्यं विवृण्वन्ति स्म बुद्धिबोध्येति । बुद्धिबोध्यं प्रमेयमात्रम् । त्रयं भाष्ये स्फुटम् । समाहारद्वन्द्वमेकवचनं च । अन्य- त्रेति सार्वविभक्तिकस्तल्भाष्ये इत्याहुः अन्यदिति। व्याख्येयम् । शंकरभाष्ये त्वन्यदिति प्रथमान्तम्। यदि च भवदादियोग एव 'इतराभ्योऽपि दृश्यन्त' इति सूत्रप्रवृत्तिस्तदा त्वन्यनिमित्तं यद्वस्तु तत्सं- कृतमित्यन्वयः। न च क्रियायामन्वयः शङ्क्यः । 'संबुद्धौ शाकल्यस्येतावनार्षे' इति सूत्र ओदित्लनुवर्त्य संबुद्धिनिमित्त ओकारो वा प्रगृह्य इति व्याख्यानात् । संस्कृतमिति उत्पाद्यम् । उत्पाद्यं व्याकुर्वन्ति संस्कारैरिति रागादिभिः । आलयत्वेनेति आत्मत्वेन । 'आलय आत्मा' इति पूर्वसूत्र उक्तम्। पञ्चेति निरोधद्वयमाकाशं संस्कृतं क्षणिकं च। यद्वा। बुद्धिबोध्यं त्रयं संस्कृतमालयः क्षणिकं चेति । अस्मिन्पक्षे संस्कृतमित्यस्य पूर्वपूर्वेति न व्याख्यानम्। त्रयं त्वत्रेति अत्र भाष्ये । तत्रेत्यादिभाष्यं विवृण्वन्ति स्म तत्रेति । अग्रे इति 'आकाशे चाविशेषात्' इति सूत्रे । तयोरिति निरोधयोः । प्रातिकूल्यमाहुः सन्तमिममिति । बुद्धिरिति एकार्थप्रत्यासत्त्या । प्रतिसंख्यानिरोध इति मुद्गरादिना कस्यचिद्भावस्य भवति । अप्रतिसंख्यानिरोधस्तु अबुद्धिपूर्वको विनाशस्तम्भादीनां स्वरस- भङ्गुराणां भवति । तदत्रेति, अत्रेति भाष्ये । स्थूल इति दण्डादिजन्यः परिदृश्यमानः । पूर्व इति प्रतिसंख्यानिरोधः । सूक्ष्म इति । संतत्यात्माऽज्ञातः । द्वितीय इति अप्रतिसंख्यानिरोधः । दण्डेन घटनाशः आद्यः इत्याहुः मुद्ररेति मुद्गरसंयोगो निमित्तकारणम् । आदिशब्देन विभागा- दयोऽसमवायिनः । सदृशेति घटस्योत्पत्तिमत्त्यारभ्य क्षणिकघटसंतानः सदृशो भवति तस्यावसानं 1247