अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1357, कुल 2600 में से
संदर्भ में पढ़ेंुकः । आर्यसत्यचतुष्टयाभ्यासान्मुक्तिः । आर्यसत्यचतुष्टयं तु समुदायसत्यं, निरोधसत्यं, दुःखसत्यं, मार्गसत्यं चेति । सर्वमुत्पत्तिमदस्तीति यन्निर्णयज्ञानं तत् समुदायसत्यम् । सर्वं क्षणिकमिति निरोधसत्यम् । सर्वं दुःखात्मकमिति दुःखसत्यम् । सर्वं शून्यं सर्वं निरात्मकमिति मार्गसत्यमित्येवं भावयतो रागादिनिवृत्तावुपगम्यमानायां निर्हेतुको विनाश इति प्रतिज्ञा हीयेत । तस्मादसङ्गतं सौगतं मतमित्याहुः ॥ २२ ॥ उभयथा च दोषात् ॥ २३ ॥ एवं पूर्वसूत्रे कार्यविचारेण निरोधद्वयं दूषयित्वाऽत्र स्वरूपविचारेण दूषयतीत्याशयेन सूत्रमुपन्यस्य व्याकुर्वन्ति प्रतिसंख्येत्यादि । उक्तनिरोधैकदेश- भूतेऽविद्याविनाशे मोक्षस्तद्दर्शनोक्तरीतिको भवतीति, क्षणिकवादिनो, वैभाषिकाः, सौत्रा- न्तिका, मिथ्यावादिनो योगाचाराश्च मन्यन्ते । तदसङ्गत