अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1358, कुल 2600 में से
संदर्भ में पढ़ें५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ४ सू० २४ अविद्यातत्कार्यातिरिक्तस्याभावान्न सहेतुकोऽपि । न हि बन्ध्यापुत्रेण रज्जुसर्पो नाश्यते । अत उभयथापि दोषः ॥ २३ ॥ आकाशे चाविशेषात् ॥ २४ ॥ यच्चोक्तमाकाशमप्यावरणाभावो निरुपाख्यमिति तन्न आकाशेऽपि सर्व- भाष्यप्रकाशः । निर्हेतुके विनाशेऽङ्गीक्रियमाणे अर्यसत्यचतुष्टयाभ्यासादिसाधनविधायकशास्त्रवैफल्यम् । तेन सहेतुकत्वोपगमे निर्हेतुकत्वप्रतिज्ञाहानिरपि क्षणिकवादिनं प्रति स्मारिता । मिथ्यावादिनो निर्हेतुकत्वाङ्गीकारे शास्त्रवैफल्यं तुल्यम् । सहेतुकत्वपक्षेऽप्यविद्यातत्कार्यातिरिक्तस्य नाश्यस्य मिथ्यावादिमतेऽप्यभावाद्वाधकस्यापि मिथ्यात्वात् तत्र दूषणमविद्येत्यादिनोक्त्वा व्युत्पादयन्ति न हीत्यादि । अत उपगमद्वयस्याप्यसंगतत्वान्मतोयेऽपि दोष इत्यर्थः । रामानुजाचार्यास्तु—क्षणिकवाद्यभ्युपेतात्तुच्छादुत्पत्तिरुत्पन्नस्य तुच्छत्वाप्तिश्च न संम- वतीत्युक्तम् । तदुभयप्रकाराभ्युपगतौ दोषश्च भवति । तुच्छादुत्पत्तौ तुच्छमेव कार्यं स्यात् । यद् यस्मादुत्पद्यते तत् तदात्मकमेव दृष्टम् । यथा मृत्सुवर्णाद्युत्पन्नं मणिकमुकुटादिकं मृत्सु- वर्णाद्यात्मकम् । न च तुच्छात्मकं जगद् भवद्भिरिष्यते, न च प्रतीयते । सतो निरन्वय- विनाशे सत्येकक्षणादूर्ध्वं कृत्स्नस्य जगतस्तुच्छताप्तिरेव स्यात् पश्चात्तुच्छाज्जगदुत्पत्तावनन्तरोक्तं तुच्छात्मकत्वमेव स्यात् । अत उभयथा दोषाश्च भवदुक्तावुत्पत्तिनिरोधावित्येवमाहुः ॥ २३ ॥ आकाशे चाविशेषात् ॥ २४ ॥ अतः परमाकाशं दूषयतीत्याहुः यच्चेत्यादि । आव- रणाभावमात्रमाकाश इति यदुच्यते तदसङ्गतम् । आकाशोऽपि भूतान्तरवद् वस्तुत्व- रश्मिः । कार्याणि परिकराश्च । निर्हेतुके विनाशे अप्रतिसंख्यानिरोधे । अर्यसत्येति । एतच्च गतसूत्रे भास्कराचार्यैर्व्याख्यानमनूदितम् । तेनेति साधनविधायकशास्त्रेण । स्मारितेति आरम्भसूत्रे स्कन्धा- तुवादाग्रे सेयमभावप्राप्तिर्मोक्ष इत्यनुवादात् निर्हेतुकत्वप्रतिज्ञात्यागादग्रे संस्कारस्कन्धाप्राप्तिकथनेन संस्कार- स्कन्धक्षयात्मा मोक्षोऽपि दुर्लभ इति निर्हेतुकत्वप्रतिज्ञाहानिः सा स्मारिता । क्षणिकवादिन उक्त्वा भाष्योक्तरीत्या मिथ्यावादिन आहुः मिथ्येति । शास्त्रेति अर्यसत्यादिशास्त्रवैफल्यम् । अत इति भाष्यं विवृण्वन्ति अत इति । इत्यर्थ इति । तथा चोभयथा च मतद्वयेऽपि दोषादिति सूत्रार्थः । तुच्छादिति अवस्तुभूतात् । उत्पन्नस्येति वस्तुनः । तुच्छत्त्वापत्तिश्च । उक्तमिति पूर्वसूत्र उक्तम् । तथाहि । निरोधद्वयं सतो न संभवति । अविच्छेदात् । सतो निरन्वयविच्छेदासम्भवादिति सूत्रं व्याख्यायासंभवं व्युत्पादयन्ति स्म प्रतिसंख्यावस्थायागिद्रव्यमेकमेव स्थिरमुत्पत्तिविनाशयोः कार्या- वस्थान्तरत्वादित्युक्तं तदनन्यत्वाधिकरणे । ननु निरन्वयविनाशो निर्वाणे दीपे दृश्यते इत्यन्यत्र सो- ऽनुमीयते निरन्वयनाशवान् कार्यत्वाददीपवदिति चेन्न । घटशरावादौ मृदादिद्रव्यानुवृत्त्युपलब्ध्या सतो द्रव्यस्यावान्तरापत्तिरेव नाश इति निश्चिते प्रदीपादौ सूक्ष्मदशापस्त्याप्यनुपलम्भोपपत्तेश्चात्राप्य- वस्थान्तरकल्पनेऽस्यैव युक्तत्वेन दृष्टान्ताभावादिति । तदुभयेति तुच्छादुत्पत्तिप्रकार उत्पन्नस्य तुच्छत्वप्रकारश्च । तमाहुः तुच्छादुत्पत्ताविति । मणिकेति । मणिकं महापठः । तुच्छताप्ति- रुक्ता । पश्चादिति तुच्छताप्तेः पश्चात् । अनन्तरेति पूर्वदूषणत्वेनोक्तम् । उभयथेति तुच्छादुत्प- त्त्यङ्गीकारे उत्पन्नस्य तुच्छत्वापत्त्यङ्गीकारे च ॥ २३ ॥ आकाशे च विशेषात् ॥ २४ ॥ आवरणेति तदप्यवस्तुत्युक्तं निरुपाक्यमिति 1250