अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1362, कुल 2600 में से
संदर्भ में पढ़ें८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ४ सू० २६ नासतोऽदृष्टत्वात् ॥ २६ ॥ अपि च नानुपनर्घ प्रादुर्भावं वैनाशिका मन्यन्ते। ततश्चाऽसतोऽलीकात् भाष्यप्रकाशः। द्वाभ्यां कालिकं नित्यप्रलयमादाय, विमतं प्रतिक्षणोत्पत्तिविनाशम्, अवस्थाभेदवत्त्वात्, दीपज्वालादिवत्यनुमानेन यत् क्षणिकत्वमुक्तं तद् विशेषणाभावप्रयुक्ताभावादेव, न तूभयाभा- वात् । तथा सति यदग्रे, 'सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् । सोऽयं पुमानिति नृणां मृषा धीर्गीर्मृषा- युषाम्' इति । प्रत्यभिज्ञाया मिथ्यात्वम् । तदपि व्यर्थायुषामविवेकिनामेव तस्याः, न तूक्तरीतिक- विवेकवतां प्रत्यभिज्ञाया इति न कोऽपि विरोध इति दिक् ॥ २५ ॥ नासतोऽदृष्टत्वात् ॥ २६ ॥ एवमष्टभिर्वैनाशिकाभिमतं क्षणिकवादं निराकृत्य तद- भिमतमभावाद्भावोत्पत्तिं निराकरोतीत्याशयेन सूत्रमुपन्यस्य व्याकुर्वन्ति अपि चेत्यादि । अय- मर्थः । 'नानुपमृद्य प्रादुर्भावाद्' इति बुद्धसूत्रे बीजोपमर्द विनाङ्कुरोत्पत्तेर्दुग्धोपमर्दं विना दध्यु- त्पत्तेर्मृत्पिण्डोपमर्द विना घटोत्पत्तेरदर्शनान्नष्टेभ्य एव तेभ्यस्तत्तदुत्पत्तिदर्शनाच्च केवलोज्ञभाव रश्मिः। इति कल्पिताः । द्वाभ्यामिति एकादशे द्वाविंशेऽध्याये स्तः । तत्र 'लतः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो । उच्चावचान् यथा देहान्गृह्णन्ति विसृजन्ति च । तन्ममाख्याहि' इत्युद्धवप्रश्ने भगवद्वाक्याभ्यामुत्तरभूताभ्याम् । प्रतिक्षणेति बहुव्रीहिः । अवस्थाभेदवत्त्वं वयोवस्थादि- मत्त्वम् । दीपेति । आदिशब्देन जलतरङ्गः । उक्तमिति श्रीधरैरुक्तम् । तदिति क्षणिकत्वम् । विशेषणमवस्थाभेदवत्त्वम् । अवस्थाभेदवत्सर्वभूतरूपविमतमिति विशेषणत्वम् । तदभावप्रयुक्तवि- मताभावात् । नतु वयोवस्थादिमत्त्वविमतोभयाभावात् । 'वयोवस्थादयः कृताः' इति स्मरणात् । उभयाभावे विवक्षिते विमतवयोवस्थादयः कृता इति स्मरेत् । द्वादशस्कन्धेऽपि 'परिणामिनाम- वस्थाः' इति 'तास्तिकोऽन्याभावः परिणामः' तद्धतामवस्था जन्मप्रलयहेतव इति परिणामकथनात्परि- णामिनो नित्यत्वमेव न क्षणिकत्वमित्यवसेयम् । द्वादशस्कन्धनिबन्धे 'अतः परं द्वितीयस्तु जगदाश्रय उच्यते' इति जगदाश्रयप्रकरणस्य द्वितीयस्यावरणभङ्गे तु आत्यन्तिकं प्रलयं व्याख्यायाग्रे नित्य- प्रलयस्तु कालिकावस्थाभेदकृतः स्फुट एवेत्युक्तम् । तत्र तु परिणामिनामवस्था यास्ता एव जन्म- प्रलयाश्रयत्वेन हेतवः । नहि जन्मप्रलयावाश्रयं विहाय भवतः धर्मत्वादित्यत्रो ज्ञेयः । तेनैक- देशेनेकवाक्यत्वमित्युक्तम् । द्वादशस्कन्धे श्रीमद्भागवते चतुर्थाध्यायेपि 'नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप । उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः संप्रचक्षते । कालस्रोतोवेवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनामवस्थास्ता जन्मप्रलयहेतवः । अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना । अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव' इति । तथा सतीति वयोवस्थादीनामेव कल्पितत्वेन भूतानां व्यावहारिकनित्यत्वे सति । द्वाविंशस्थमाहुः सोऽयमिति । अविवेकिनामिति नित्य- देहस्य स्थूलदृष्टीनाम् । तस्या इति प्रत्यभिज्ञायाः । उक्तरीतिकेति सूत्रव्याख्यानोक्त- रीतिकविवेकवताम् । दिगिति स्थूलदृष्टीनामपि दृष्टान्तीयाशेषधर्मापत्तिः । चकारस्तु पूर्वोक्त- हेतुभिः सहास हेतोः समुच्चायकः स्पष्ट इति भाष्यादौ तदर्थो नोक्तः ॥ २५ ॥ नासतोऽदृष्टत्वात् ॥ २६ ॥ नष्टेभ्य एवेति अपक्ष्यं प्राप्तेभ्यः । 'किमत्र पश्यसि न १. धास्तेभ्यः । 1254