अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1363, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३ कार्यं स्यात् तन्न । अदृष्टत्वात् । न हि शशशृङ्गादिभिः किंचित् कार्यं दृश्यते । भाष्यप्रकाशः। एवावशिष्यत इत्यभावादेव भावोत्पत्तिरिति मन्यन्ते । तथा सत्यसतोऽलीकादेव कार्यं स्यात् । यदि हि बीजादिप्रतियोगिकादभावादङ्कुराद्युत्पत्तिरिष्यते तदा तस्याभावस्य बीजादिध्वंसरूपत्वेन तदवस्थाविशेषरूपतयाऽवस्थाविशेषविशिष्टाद् बीजादेरेवोत्पत्तिरिति स्यात्त- स्तदभावाय वैनाशिकेन निःस्वभावादेवाभावाद्भावकार्योत्पत्तिरङ्गीकार्या । तथा सति तस्या- भावस्य निःस्वभावतया शशशृङ्गतुल्यत्वादलीकादेव कार्योत्पत्तिरिति सिद्ध्यति । तच्चासंगतम् । दृष्टविरोधात् । न हि तादृशात् कार्योत्पत्तिः क्वापि दृष्टा । न वा तादृशोऽभावः क्वापि दृष्टः । नाप्यनुमातुं शक्या । यदुत्पद्यते तदभावजन्यं यथा बीजाद्युपमर्दादङ्कुरादीति प्रयोगे दृष्टान्तस्यावस्थाविशेष एव पर्यवसानेन त्वदभिमताभावासाधकत्वात् । तादृशादभावाद्भावो- त्पत्त्यङ्गीकारश्च सर्वत्र सर्वतः सर्वोत्पत्तिप्रसङ्गादपि बाधितः । किंच । अभावाद्भावोत्पत्तौ कार्य- मभावान्वितं दृश्येत । सर्वस्य कार्यस्य कारणान्वितत्वदर्शनात् । किंच । उपमृद्य प्रादुर्भावोऽपि न सार्वत्रिकः । सुवर्णजन्यकटकादौ तन्तुजन्यपटादौ च तददर्शनात् । एवं चाङ्कुरादावपि बीजस्थूलांशस्यैवोपमर्दो न तु सूक्ष्मांशस्य । तदन्तस्त एव सूक्ष्मांशानामङ्कुरीभावात् । अतः रश्मिः। किमपि भगवः' इति श्रुतिसाहाय्यादेवकारः । तत्तथेति भाष्यं विवृण्वन्ति स्म तथा सतीति । अभावं निश्चिन्वन्ति स्म यदि हीति । बीजाद्यभाव इत्यत्र बीजादीति । अभावत्रयासंभवाद् ध्वंस उपात्तः । अङ्कुरादिप्रागभावो यद्यपि संभवति तथापि तत्खण्डनान्नास्ति स इति ज्ञेयम् । सहकारिकारणाभावान्न प्रागभावः प्रतीतिविषयो वा । तदवस्थेति बीजावस्थाविशेषरूपतया । एवमेव सर्वोपि प्रत्येति कार्यस्थितिप्रतिकूलां कारणावस्थां पश्यन्निह घटो ध्वस्त इति । तद- भावायेति भावादुत्पत्त्यभावाय । निःस्वभावादिति निरन्वयात् । सूत्रार्थविवरकं तन्नेति भाष्यं विवरीतुमाहुः तच्चेति । अदृष्टत्वादित्यत्र विरोधो नञर्थः अधर्म इतिवत्, अन्ये स्वभाव- मात्रं नञर्थः अब्राह्मण इत्यादयस्त्वार्थिकार्थं स्पृशन्तीति वदन्ति तदाहुः दृष्टेति । नहीत्यादि भाष्यं विवृण्वन्ति स्म नहीत्यादिना । तादृशादिति अलीकात् । तादृश इति निःस्वभावः । दीपनाशस्याप्यनिरन्वयत्वात् स्वकारणे वायौ लयात् । अनुमातुमिति यदुत्पद्यते तदभावजन्य- मुत्पद्यमानत्वात् यथा बीजाद्युपमर्दादङ्कुरादि, इत्यनेनानुमानेनानुमातुम् । व्याप्तिमनूद्य दृष्टान्तमनुमान- रचनायाहुः पर्यवसेति । उपमर्दस्य ध्वंसरूपत्वात् । त्वदभीति निरन्वयनाशासाधकत्वात् । दृश्येतेति समवायित्वादभावस्य दृश्येत । कारणेति समवायिकारणैरित्यर्थः । उपमर्द्येति ध्वंसं प्राप्य । ननु न सुवर्णमनुपमृद्य कटकादि दृश्यत इत्यत आहुः तन्तुजन्येति । तददर्शना- दिति तन्तुसुवर्णयोरुपमर्दादर्शनात् । बीजादावुपमर्दः षड्भावविकारान्तर्गतपक्षय एव न निरन्वयो नाश इत्याहुः एवं चेति । न तु सूक्ष्मति । न च 'किमत्र पश्यसीति न किंचन भगवः' इति श्रुतिविरोध इति वाच्यम् । न भावयितुं केनापि शक्य इत्यभाव इति व्युत्पत्तेः सूक्ष्मांशानामभावरूपत्वात् । एतदेवाहुः तदन्तस्त इति तसिलन्तम् । सार्वविभक्तिकत्वात्त- दन्तर्गतानामित्यर्थः । इदं तु पत्रनवदलेष्वभावरूपसमवायिशून्येषु दृश्यते । अभावस्तु न दृश्येतैत आहुः अङ्कुरीभावादिति । अत इति मूलाद्युत्पत्तावपि मूले वैलक्षण्योपलब्धेः । 1255