अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1364, कुल 2600 में से
संदर्भ में पढ़ेंएवं सतः कारणत्वं पूर्वपाद् उपपाद्यासतः कारणत्वं निराकृत्य व्यासचरणै- र्वेदाना मव्याकुलत्वे संपादितेऽपि पुनर्द्दैत्यव्यामोहनार्थं प्रवृत्तस्य भगवतो बुद्ध- स्याज्ञया 'त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । स्वागमैः कल्पितैस्त्वं च जनान् मद्दिङ्मुखान् कुरु' इत्येवंरूपया, महादेवादयः स्वांशेनावतीर्य वैदिकेषु प्रविश्य विश्वासार्थं वेदभागान् यथार्थानपि व्याख्याय सदसद्विलक्षणामसदपरपर्यायामविद्यां सर्व- भाष्यप्रकाशः । संस्थानमात्रस्यैव निवृत्तिर्न तु द्रव्यस्येति । तत्र बीजद्रव्यं कूटस्थमेवावयवद्वारा कारणम् । एवं दध्यादावप्यवस्थाभेद एवेत्यभावाद्भावोत्पत्तिः सर्वथानुपपन्नैवेति सिद्धम् । एवमसत्कारण- वादनिराकरणेन मायावादिप्रतिपन्नाविद्याकारणवादनिरकरणमप्यर्थादेव सिद्धमित्याहुः एवं