अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1370, कुल 2600 में से
संदर्भ में पढ़ें९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० २८ यस्तूपलभमान एव नाहमुपलभ इति वदति स कथमुपादेयवचनः स्यात् ॥ २८ ॥ भाष्यप्रकाशः। पपत्तये बाह्यार्थापेक्षा तसावश्यमभ्युपेया । तथा सति सिद्ध एव बाह्योऽर्थः प्रपञ्चरूपः । सहोपलम्भनियमादभेदस्तु सहपदार्थविचारादेवासंगतः । सहत्वं हि द्वयोर्भिन्नयोः पदार्थयो- रेकदेशवर्तित्वमेककालवर्तित्वं वा । उभयथापि हेतुतावच्छेदकतया प्रविष्टे पदार्थान्तरे भिन्नोपलम्भनियमादित्येव हेत्वर्थो भवति । तदेवं प्रतिज्ञाहेत्वोर्विरोधे यदि हेतुरादरणीयस्तदा प्रतिज्ञाबाधः । यदि प्रतिज्ञादरणीया तदा साधकं विना तदसिद्धिः । किंचाभेदोऽपि किमेकत्वमुत भेदाभावः । आद्येपि संख्या वा धर्मान्तरम् । आद्ये नीलतद्धियोरेकत्वसंख्याविशिष्टत्वमित्यर्थो भवति । तेन न बा