अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1371, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९१ वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥ ननूपलब्धिमात्रेण न वस्तुसत्त्वम् । स्वप्नमायागन्धर्वनगरेष्वन्यथादृष्टत्वादितिचेत् न । वैधर्म्यात् स्वप्नादिषु तदानीमेव स्वप्नान्ते वा वस्तुनोऽन्यथाभावोपलम्भात् । न तथा जागरिते । वर्षानन्तरमपि दृश्यमानः स्तम्भः स्तम्भ एव । खस्य मोक्षे प्रवृत्तिसिध्याघातश्चकारार्थः ॥ २९ ॥ भाष्यप्रकाशः। पलभ इति वदति स कथमुपादेयवचनः स्यादिति । उपलभन्नेवेति पाठे तु औणादिको- ऽतिप्रत्ययः । उणादीनां सर्वधातुभ्यो भवनात् । 'वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' इति शतृ- वद्भावाच्चानुम् । 'संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' इति भाष्यानुशासनात् ॥ २८ ॥ वैधर्म्याच्च न स्वप्नादिवत् ॥२९॥ पूर्वसूत्रोक्तस्य हेतोरनैकान्तिकत्वं वारयितुं तद्दृष्टान्ता- संगतिं वदतीत्याशयेन सूत्रमुपन्यस्य व्याकर्तुमवतारयन्ति नन्वित्यादि । अन्यथा रश्मिः। एवातिप्रत्ययान्ता निपातिता इति कथं लभधातोरतिप्रत्यय इत्यत आहुः संज्ञास्विति । अनूबन्धमिति 'उपसर्गस्य घञ्यि'ति दीर्घः । शास्त्रमिति अनुशासनीयमित्यर्थः । तथाचोपलभेरुदात्तेतश्चातिर्नुम् । इति लभधातुरतिप्रत्ययः शतृवदिति उपलभन्निति भाष्यप्रयोगरूपकार्याद्विद्यादिति साधुरित्यर्थः । किंच रखेः क्युन्निति रखेर्विहितः क्युन् कृपेरपि दृश्यते कृपण इति । तथा पृषदादिभ्यो निपातितः शतृवदित