अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1374, कुल 2600 में से
संदर्भ में पढ़ें९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० ३० न भावोऽनुपलब्धेः ॥ ३० ॥ यदप्युच्यते, बाह्यार्थव्यतिरेकेणापि वासनया ज्ञानवैचित्र्यं भविष्यतीति तन्न । वासनानां न भाव उपपद्यते । तन्मते बाह्यार्थस्यानुपलब्धेः । उपलब्धस्य हि वासनाजनकत्वम् । अनादित्वेऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैव । अर्थव्यति- रेकेण वासनाया अभावाद् वासनाव्यतिरेकेणाऽप्यर्थोपलब्धेरन्वयव्यतिरेकाभ्या- मर्थसिद्धिः ॥ ३० ॥ भाष्यप्रकाशः। मात्मांशग्राहि वा न वा। आद्ये तस्य तथात्वे हेत्वन्तराकाङ्क्षा, तत्तद्धेतोरित्यनवस्थानाद- सिद्धिः । द्वितीये तु नीलादिज्ञानैः किमपराद्धं येन स्वानुमाने तथात्वमङ्गीकृत्यापि बाह्यप्र- काशकानि तान्यात्मन्यवरुध्यन्ते । किंच । अज्ञानविपर्ययज्ञानस्य ज्ञानाभाव एव ग्राह्यः । न च ज्ञानाभावस्य ज्ञानात्मता संभवति । अत्यन्तविरुद्धत्वादित्यादीनि बहूनि दूषणान्याहुरित्युपरम्यते । चकारसूचितं दूषणान्तरमाहुः । खस्येत्यादि । प्रवृत्तेरनर्थात्त्वात् तदस्तित्वस्य चानङ्गीकारात् तथे- त्यर्थः । तेन प्रपञ्चस्य न खमादित्यृत्वमिति सिद्धम् ॥ २९ ॥ न भावोऽनुपलब्धेः ॥ ३० ॥ क्षणिकविज्ञानवाद्युक्तं ज्ञानवैचित्र्यहेतुं दूषयतीत्याशयं स्फुटीकुर्वन्ति यदपीत्यादि । अयमर्थः । वासना हि अनुभवजनितः स्मृतिजनकः संस्कारः रश्मिः । घटितं वेद्यत्वं संवित्तिः तस्मात् । स्वसंवित्त्विं हेतुतावच्छेदकम् । एतच्च ग्रन्थे द्रष्टव्यम् । हेतुं विवृणोति स्म बाह्यत्वेति बाह्यत्वघटितग्राह्यलक्षणयोग इत्यत्र ज्ञाने बाह्यत्वेन घटितं ग्राह्यं गोचरस्त- ल्लक्ष्यतेऽनेन ग्राहकेन स ग्राहकः बाह्यत्वघटितग्राह्यलक्षणः तस्य योगो विषयतया संवित्तौ तस्मात्, संवित्तिप्रोक्तज्ञानात् । आदिशब्दार्थो द्रष्टव्यः । अनुमानादिति गृह्यत इति संबन्धः । दृष्टान्तस्तु खम एव । आत्मांशेति बाह्यत्वघटितग्राह्यग्राहि । तस्येति अनुमानं व्याप्तिज्ञानं न तु नीलादि- कम् । ज्ञानात्मांशभूतज्ञानाकार इत्यनुमितिमुद्भाव्य सनाथं न नीलज्ञानात्मांशभूतज्ञानाकारं गृह्णाति विषयीकरोति तस्मादनुमानस्य तादृशात्मांशग्राहित्वे विषयीकरणे हेत्वन्तरस्य परंपरास्वरूपास्याकाङ्क्षा भवति । हेत्वन्तरे परंपरास्वरूपे हेतोरुक्तन्यायाविरोधरूपस्य । यद्वा हेतोरनुमानतयोक्तविकल्पे प्राप्ते पुनः पुनराद्ये तस्य तथात्वे हेत्वन्तराकाङ्क्षा पूर्वोक्तप्रकारेण भवत्येवं तस्य तस्यापीत्यनवस्थानादात्मांशग्रा- हित्वासिद्धिरित्यर्थः । किमपराद्धमिति आत्मांशग्राहित्वे तुल्ये येनापराधेन नीलज्ञानस्य प्राथम्यमप- हतम् । प्रत्यक्षानुमानेत्यादिक्रमाद् एतदेवाहुः येनेत्यादिना । येन अपराधेन । तथात्वं आत्मांशग्रा- हित्वम् । बाह्येति अर्थप्रकाशकानि । तानीति नीलादिज्ञानानि । आत्मनि ज्ञानस्वरूपविषयेऽव- रुध्यन्ते संकुचितानि क्रियन्ते । एवेति भयं ज्ञानात्मकत्वं व्यवच्छिनत्ति । विरुद्धत्वं सहानवस्थाायि- त्वम् । सूचितमिति । तथा च व्यञ्जनया चकारार्थ इति भाष्येर्थः । तदस्तीति आलयविज्ञानास्ति- त्वस्य । तथेति मोक्षार्थी या प्रवृत्तिस्तस्या व्याघातः । चैत्रस्य गुरुकुलमितिवदन्वयः । खमादीति । आदिशब्देन मायाप्रभौ ॥ २९ ॥ न भावोऽनुपलब्धेः ॥ ३० ॥ क्षणिकेति । ननु वैधर्म्यमप्रयोजकं स्वप्नेपि समान्तर- वैधर्म्यदर्शनात् । अतो विचित्रवासनाभ्यो विचित्राणि ज्ञानानि तेभ्यः पुनस्ता इति चक्रवत्परिवृत्यङ्गी- कृतौ न किमपि दूषणमित्येवमुक्तम् । हेतुं वासनाम् । तन्मत इत्यादिभाष्यतात्पर्यमाहुः अयमिति । 1266