भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1375, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1375

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५ क्षणिकत्वाच्च ॥ ३१ ॥ वासनाया आधारोऽपि नास्ति । आलयविज्ञानस्य क्षणिकत्वात् । वृत्तिवि- ज्ञानवत् । एवं सौत्रान्तिको विज्ञानवादी च प्रत्युक्तः । भाष्यप्रकाशः। कार्यलिङ्गकानुमानात् सिद्ध्यति । अनुभवं विना तु न तस्या उत्पत्तिः । अनुभवस्य चार्थं विना । अर्थस्तु तन्मते नास्त्येवेति तज्जनकाभावे कथं तस्याः सिद्धिः । अथ विचित्राज्ज्ञानाद् वासना, विचित्राभ्यो वासनाभ्यो ज्ञानानीति हेतुहेतुमद्भावेन विज्ञानवासनाचक्रमनादि परिवर्तत इति वदसि तदाप्यन्धपरंपरान्यायेन तस्य ज्ञानस्याप्रतिष्ठैव । अर्थव्यतिरेकेण वासनाया अभावात् । यदि ह्यर्थव्यतिरेकेण वासनाः स्युस्तदा स्वप्नं दृष्ट्वोत्थितस्य तदनुभवजन्या वासनास्ताभ्यश्च तादृशानि विज्ञानान्येव सर्वदानुवर्तेरन् न तु तद्विसदृशानि जाग्रद्विज्ञानानि भवेयुः । तदुपमर्दकस्य बाह्यार्थस्य तन्मते अभावात् । दृश्यते त्वन्यथा, अतोऽर्थव्यतिरेकेण वासनाया अभावादान्वयेन वासनाव्यतिरेकेणार्थोपलब्धेश्च व्यतिरेकेणेत्यन्वयव्यतिरेकाभ्यामर्थ- सिद्धिरिति न बाह्यापलापः शक्यः ॥ ३० ॥ क्षणिकत्वाच्च ॥ ३१ ॥ प्रकारान्तरेणापि वासनां निराकरोतीत्याशयेनाहुः वासनाया इत्यादि । अयमर्थः । वृत्तिविज्ञानं वासनाजनकं पूर्वक्षणवृत्ति । तदाधारआलयविज्ञानं तत्समान- कालम् । एवं सति वृत्तिविज्ञानेन यदा वासनोत्पादनीया तदानीं वृत्तिविज्ञानाधारस्यालय- विज्ञानस्य नष्टत्वादधाराभावेनापि वासनानुपपत्तिः । तदानीमालयविज्ञानसत्त्वाङ्गीकारे क्षणिक- रश्मिः। आर्षेतरे प्रत्यक्षाभावादाहुः कार्येति देवदत्तो वासनावान्, स्मृतेः, अस्मदादिवदित्यनुमानात् । विनेति नोत्पत्तिरित्यर्थः । तज्जनकेति वासनाजनकानुभवाभावे । तस्या इति वासनायाः । तथा चोपलब्धस्य बाह्यार्थस्य विषयस्यानुभवद्वारा वासनाजनकत्वं हि निश्चयेनेतिभाष्यार्थः । अनादित्व इत्यादि भाष्यं विवृण्वन्ति स्म अथेति । विचित्राज्ज्ञानादिति स्मार्तः प्रयोगः । अप्रतीति युक्ते- रप्रतिष्ठा । तर्कप्रतिष्ठानसूत्रादेवकारः । अर्थेत्यादि । इदं व्याख्येयं भाष्यम् । उक्तं भाष्यं विवृण्वन्ति स्म यदीति । तदुपति स्वप्नोपमर्दकस्य । सिद्धान्ते स्वयं दोषो नास्तीत्याहुः त्वन्मत इति । अन्यथेति स्वप्नविज्ञानोपमर्दनेन विसदृशानि विज्ञानानीत्यर्थः । अन्वयेनेति अर्थसत्त्वे वासनासत्त्वमित्यनेन । वासनेत्यादिभाष्यं विवृण्वन्ति स्म वासनाव्यतीति अर्थाभावे वासनाभाव इति व्यतिरेको न तु वासनाभावेऽर्थाभाव इति । ननु किमनेन न त्वित्युक्तपक्षेणार्थाभावे वासनाभाव इत्यस्यैव सुवचत्वादिति चेन्न । चक्रवत्परिवृत्तौ वासनाया अपि कारणत्वसंभवो न भवतीत्यसत्कारण- ताग्राहकव्यतिरेकेऽवश्यवक्तव्यत्वात् लाघवमत्र शरणम् । अर्थसिद्धिरिति विषयसिद्धिः ॥ ३० ॥ क्षणिकत्वाच्च ॥ ३१ ॥ वृत्तिविज्ञानक्षणिकत्वतुल्यमालयविज्ञानस्य क्षणिकत्वम् । तस्मा- द्वासनाया आधारोऽपि नास्तीति भाष्यार्थमाहुः अयमिति । वृत्तिविज्ञानमिति । वृत्तौ तु प्रवृत्तिविज्ञानमुक्तं शांकरभाष्येपि तथोक्तम् । तत्र प्रवृत्तेर्वासनाजनकत्वं दुरूहमिति तत्त्यक्तम् । पूर्वेति वासनायाः पूर्वक्षणवृत्ति । तदाधारः वासनाधारः । तत्समानेति क्षणिकत्वेऽपि वृत्तिविज्ञानसमकालं भवति । यदेति द्वितीयक्षणे । तदानीमिति आलयविज्ञानतृतीयक्षणे । एवमेतावता भाष्यं व्याख्या- तम् । अन्यदाहुः तदानीमिति । क्षणिकेति । आधारस्यालयविज्ञानस्य द्विक्षणावस्थापित्वात् । 1267