अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1376, कुल 2600 में से
संदर्भ में पढ़ें९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ५ सू० ३१ माध्यमिकस्तु मायावादिबदत्यसंबद्धभाषित्वादुपेक्ष्य इति न निराक्रियत आचार्येण ॥ ३१ ॥ भाष्यप्रकाशः । वादहानिः । यदि च संतानिन आलयविज्ञानस्य वृत्तिज्ञानाधारत्वं तत्संतानस्य वासनाधारत्वमित्युच्यते, तदापि वृत्तिज्ञानवैसादृश्यहेत्वभावादसंगतिः । यदि च संतानप्रवाह एव वासनेत्युच्यते, तदापि, उत्तरोत्पादे च पूर्वनिरोधादित्यादीनां दूषणानामा- पत्तिः । तस्मादसङ्गतमेवेदं मतमिति । उपसंहरन्ति एवमित्यादि । तर्हि माध्यमिकः कुतो न दूष्यत इत्यत आहुः माध्यमिकेत्यादि । यथा हि मायावादिनः श्रुतिच्छायामादाय सर्वं विप्लावयन्ति तथा सोऽपि युक्तिच्छायामादाय सर्वं नाशयतीत्यसंबद्धभाषित्वात् स्व- युक्तिभिरेव दूषितप्रायः । स हि सर्वशून्यवादी येन प्रमाणेन शून्यतां साध