भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1377, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1377

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९७ भाष्यप्रकाशः। ष्यभावः । नापि सदसत् । सदसतोरेतरतरविलक्षणत्वादेकस्य सदसद्भावानुपपत्तेः । नापि सदसद्विलक्षणम् । एकस्य तथात्वानुपपत्तेः अदर्शनाच्च । अतः कोटिचतुष्टयनिर्मुक्तं शून्यमेव तत्त्वम्, अभावापत्तिरेव मोक्ष इति । तदिदमसंगतम् । तथाहि । यस्यया चतुष्कोटिनिर्मुक्तं शून्यं तत्त्वं व्यवस्थाप्यते, तत् केनचित् प्रमाणेनावगतमुत प्रमाणं विना वस्तुसामर्थ्यात् । नान्त्यः । तथा सत्याकाशवत् सार्वजनीनं स्याद् न वादिनो विप्रतिपद्येरन् । किंच, तत् सामर्थ्यं तत्रास्ति न वा । यद्यस्ति तर्हि तदाधारं शून्यमप्यस्त्येवेति न चतुष्कोटिनिर्मुक्कता । अथ नास्ति, तदापि तथा । नाद्यः । प्रमाणेप्यस्तिनास्तिभ्यां विकल्पिते चतुष्कोटिविधुवनासिद्धेः । किंच । येनावगतं तत् किं प्रमाणं, प्रत्यक्षममुमानं वा । नाद्यः । सार्वजनीनत्वाभावेन तव प्रत्यक्षस्य प्रतिवाद्यनादरणीयत्वात् । अथ यद्विचारासहं तच्छून्यमित्यनुमातव्यं तदा तवो- दाहरणाभावः । सर्वस्यैव पक्षीकरणात् । तथा च नानुमानस्य सिद्धिः । अथ, घटः शून्यः उक्तरीत्या विचारासहत्वात् पटवत्, इति परोक्तरीतिकप्रयोगेणानुमातव्यं तदा तु सुवर्ण- जन्यकटकादौ तन्तुजन्यपटादौ च व्यभिचारेणोपमृद्य प्रादुर्भावस्य निरस्तत्वादभावादेव भावोत्पत्तिः सिद्धैवेति न विचारासहत्वस्य सिद्धिरिति स्रयुक्तिभिरेव दूषितत्वान्न निरा- क्रियत इत्यर्थः ॥ ३१ ॥ रश्मिः। अभाव इति । 'जातस्य हि ध्रुवो मृत्युः' इति । नापीति उत्पद्यत इत्यन्वयः पूर्ववत् । एकस्येति सत्त्वमसत्त्वं चैकस्य नास्तीति नापीति उत्पद्यत इत्येव पूर्ववत् । एकस्येति सद्विलक्षणमसत् , अस- द्विलक्षणं सदिति द्वैतं त्वेकमिति भावः । भिन्नमुभयादेकमिति चेत्तत्राह अदर्शनादिति । कोटीति सदसत्सदसत्सदसद्विलक्षणरूपकोटिचतुष्टयं तेन निर्मुक्तम् । नन्वाकाशवत्सार्वजनीनत्वेपि वादि- विप्रतिपत्तिर्दृश्यत इत्यत आहुः किंचेति । न चतुरिति असत्कोट्यभावादिति भावः । किंतु सत्कोटौ निवेशः । तथेति अभावाधारः शून्यमस्तीति सत्यया न चतुष्कोटिनिर्मुक्कता । नाद्य इति शून्यं प्रमाणेनावगतमिति पक्षो नेत्यर्थः । चतुरिति चतुष्कोटिनिर्मुक्तासिद्धेः । प्रमाणमपि शून्यमिति शून्येनावगतं शून्यमिति वक्तुं योग्यं नेत्यर्थः । धुञ् कम्पने स्वादिः ल्युट् । उवङ् । धू विधूनने तुदादिर्वा । चलनशब्दार्यादकर्मकाद्युजिति युच् तु न । अकर्मकत्वाभावात् । चतुष्कोटेः कर्मत्वात् । पठिताविद्यामितिवत् । सर्वेति शून्यस्य सार्वेत्यादिः । अनुमातव्यमिति । सर्वं शून्यं विचारा- सहत्वादित्यत्र केवलव्यतिरेकिणि व्याप्तिज्ञानविषयं कर्तव्यं शून्यमित्यर्थः । उदाहरणमन्वये दृष्टान्तस्तदभावात् । तथा चेति सामानाधिकरण्यग्रहे स्थलान्तराभावे च दृष्टान्ताभावेन व्याप्तिज्ञानस्या- सिद्धिः । तथा चाज्ञानरूपा सिद्धिरेव न हेत्वाभासत्वमसेति क्षितमनुमानपरिच्छेदसमाप्तौ मुक्ताव- ल्याम् । दृष्टान्तार्थं यतते स्म अथेति । उक्तरीत्येति कोटिचतुष्टयखण्डनरीत्या । परोक्तेति सामान्यतः पक्षासंभवे विशिष्य पक्षसंभव इति नैयायिकोक्तरीतिकप्रयोगेण । व्यभीति उपमृद्येत्या- भावं प्राप्य प्रादुर्भावस्य व्यभिचारेणेत्यर्थः । उपमृद्येति अभावं प्राप्य । निरस्तत्त्वात् 'नासतो दृष्टत्वात्' इति सूत्रे । स्वेति नाप्यभावाद् अभावार्मकत्वस्याभावान्वयस्य च कार्येष्वदर्शनादिति युक्त्या । एवं भावात् स्वतः परतश्चोत्पत्तिः । स्वयुक्तिभिर्दूषितेति बहुवचनात् । इत्यर्थ इति । आचार्येण व्यासेनेत्यर्थो भाष्ये । आईतास्तु द्वितीयाधिकरणे निरस्कीरणीयाः । चार्वाकस्त्वग्रे प्रतिवक्तव्य इति पदं सौगताः ॥ ३१ ॥ 1269 ११ ब्र० सू० २०