अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1378, कुल 2600 में से
संदर्भ में पढ़ें९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ५ सू० ३२ सर्वथानुपपत्तेश्च ॥ ३२ ॥ किं बहुना बाह्यवादो यथा यथा विचार्यते तथा तथा असंबद्ध एवेत्यलं विस्तरेण । चकाराद् वेदविरोधो मुख्यः ॥ ३२ ॥ इति द्वितीयाध्याये द्वितीयपादे पञ्चमं नाभाव उपलब्धेरित्यधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। सर्वथानुपपत्तेश्च ॥ ३२ ॥ भाष्यमत्र निगदव्याख्यातम् । एतेनैवात्यसंबद्धत्वबोधनेन केवलदृष्टमात्रानुसारी चार्वाकोपि प्रत्युक्तो ज्ञेयः । ननु यद्यप्यत्र विज्ञानातिरिक्तप्रपञ्चसत्त्वं साधितं, तथापि तृतीयस्कन्धे कापिलेये, 'ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा' इत्यत्र, तथा दशमस्कन्धे 'सत्त्वं रजस्तम इति गुणास्तद्वृत्तयश्च याः । त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया । तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः' इत्यत्रैवमन्यत्र च प्रपञ्चस्य ज्ञानमात्रत्वं कल्पितत्वं चोच्यत इति कथं तद्विरोधः परिहर्तव्य इति चेत् । उच्यते । कपिलेन हि प्रपञ्चं ब्रह्मात्मकत्वेनाजानतां बहिर्मुखतया ब्रह्मभिन्नगुणजन्यपृथगर्थत्वेन जानतां प्रतीतिमादाय तस्या एकदेशस्थस्वभावग्राहित्वेन तादृशप्रतीतिविषयमर्थत्वमपोद्य ज्ञानात्मकब्रह्म- रूपता बोध्यते वैराग्यार्थ, न तु ब्रह्मोपादेयार्थरूपताप्यपोद्यत इति ब्रह्मनिर्गुणपदाभ्यामवसीयते । रश्मिः। सर्वथानुपपत्तेश्च ॥ ३२॥ निगदेति । चकारादित्यादिभाष्ये चकारोनुक्तस्य वेद- विरोधस्य समुच्चायक इति हृदयम् । एतेनैवेति भाष्येणैव । एवकारेण युक्तिव्यवच्छेदः। रामानुजा- चार्यैरेतस्मिन्सूत्रे माध्यमिको निराकृतः । तथा सति षट्सु सर्वथानुपपत्तिर्न संभवति । या तु 'स्मृतेश्च' इति सूत्रेणानुस्मृतिमात्रेण निराकृतात आचार्यैः षट्सु सर्वथाऽनुपपत्तिं बोधयितुं बाह्यवाद इत्युक्तं तदाहुः अत्यसंबद्धेति । चार्वाक इति । अयं तु लोकायतदर्शनं बृहस्पतिप्रणीतमनुसरति देहात्मवादी प्रत्यक्षैकप्रमाणवादी च । अस्य देहात्मविवेकदर्शनज्ञानप्रत्यक्षत्वानुसंधानात्प्रत्यक्षैक- प्रमाणवादित्वेऽत्यसंबद्धभाषित्वात् । पराचीनैरिति पराङ्मुखैः केवलदृष्टमात्रग्राहकैः । शब्दा- दीति शब्दादिधर्मो यस्य विद्यते स शब्दादिधर्मी तेनार्थरूपेण । द्वात्रिंशेऽस्ति श्लोकः । दशमेति पञ्चाशीतितमेऽध्याये । तद्वृत्तय इति प्रकृतिपरिणामादयः । उच्यत इति इयं मता- न्तरभावेऽप्युच्यते । ब्रह्मेति प्रकृतिजन्येत्यर्थः । जानतामिति सांख्यानाम् । एकोनत्रिंशत्तमे देवहूतेः 'यथा सांख्येषु कथितम्' इति प्रश्नात् । उत्तरस्यापि सांख्यानुसारित्वात् । तस्या इति ब्रह्मात्मकेऽन्यथाबुद्धिर्भ्रान्तिरितो भ्रान्तेरित्यर्थः । सर्वजनीना प्रतीतिः कथं भ्रान्त्येत्यत आहुः एकेति व्यापकसर्वार्थकारज्ञानस्यैकदेशः कश्चिदाकारः परिच्छेदश्च तद्ग्रहणेन खल्विन्द्रियस्य यः स्वभावः पराक्त्वं तद्ग्रहणेन च तद्ब्रह्मात्मकं निर्गुणं ज्ञानमन्यथागृहीतं भवतीति भ्रान्तिरित्यर्थः । तादृशेति भ्रान्त- प्रतीतिविषयम् । अपोद्येति विशेषदर्शनवद्विद्यमानघटत्वादिकप्रकारकं ज्ञानमपोद्य ब्रह्मत्वेन ज्ञानात्म- कब्रह्मरूपता घटादीनां बोध्यते इति । वैराग्यार्थमिति 'विरागो येन पुरुषो भगवन्सर्वतो भवेत्' इति देवहूतिप्रश्नादिदं कपिलवाक्यं वैराग्यार्थम् । स्फुटं चेदमाकरे । ब्रह्मोपेति ब्रह्म उपादेयार्थः ब्रह्मोपादेयार्थस्तद्रूपतापीत्यर्थः । ब्रह्मनिर्गुणेति । अत्र ज्ञानमर्थरूपेण भ्रान्त्यावभातीत्युच्यते । तत्र 1270