भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1379, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1379

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९९ नैकस्मिन्नसंभवात् ॥ ३३ ॥ (२-२-६) विवसनसमयो निराक्रियते । ते ह्यनन्तनिष्ठाः प्रपञ्चे उदासीनाः सप्त विभक्तीः भाष्यप्रकाशः। तथा सति कस्तत्र विरोधः । एवमेव दशमस्कन्धीये वाक्येऽपि ज्ञेयम् । तत्रापि सांख्यसिद्धानामेव योगमायाकल्पिततया अभावविधानात् । एवं सर्वत्रावान्तरप्रकरणवशेन वैराग्यार्थं महेन्द्रजालपक्षमपीन्द्रियायनसृष्टिपक्षं चादाय मतान्तरसिद्धस्यैव बोधकं ज्ञेयम् । अतो न कोपि क्वापि विरोध इति सर्वं सुस्थम् ॥ ३२ ॥ इति नाभाव उपलब्धेरित्यधिकरणम् ॥ ५ ॥ नैकस्मिन्नसंभवात् ॥ ३३ ॥ अधिकरणमवतारयन्ति विवसनेत्यादि । एत एव क्षपणका आर्हता जैनाश्चोच्यन्ते । मुक्तकच्छाः पूर्वं दूषिताः, इदानीं विवसना दूष्यन्त इति वाचस्पतिमिश्राः । सौगतवज्जैना अप