अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1381, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०१
भाष्यप्रकाशः । पुद्गलास्तिकायः, आकाशास्तिकायश्चेति । अनेकदेशवर्तिनि द्रव्ये अस्तिकायशब्दः । तत्र जीवास्तिकायस्त्रिविधजीवात्मको व्याख्यातः । धर्मास्तिकायः प्रवृत्त्यनुमेयः । अधर्मास्तिकायः स्थित्यनुमेयः । पुद्गलास्तिकायस्तु परमाणुव्यतिरिक्तानि चत्वारि भूतानि, स्थावरं जङ्गमं चेति । परमाणवस्तु नास्तिकाय इत्युच्यन्ते । परमाणवश्चैतेषां मते एकविधाः, न तु चतुर्विधाः । पृथिव्यादिभेदस्तु परिणामभेदकृतः । आकाशास्तिकायो द्वेधा । लोकाकाशोऽलोकाकाशश्चेति । तत्रोपर्य्युपरिस्थितानां लोकानामन्तर्वर्ती लोकाकाशः । तेषामुपरि मोक्षस्थानमलोकाकाशस्तत्र हि न लोकाः सन्तीति । तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । जीवानां मोक्षोपयोगिनम- परमपि सङ्ग्रहं कुर्वन्ति । जीवाजीवास्रवसंवरनिर्जराबन्धमोक्षा