अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1382, कुल 2600 में से
संदर्भ में पढ़ें१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ६ सू० ३३ भाष्यप्रकाशः। कर्मबहुषु विप्रतिषिद्धेषु मोक्षमार्गेषु तीर्थंकरैरुपदिष्टेषु विशेषानवधारणं मोहनीयं कर्म । सन्मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तद्धि जीवगुणानां ज्ञानदर्शन- वीर्यसुखानां घातकरमिति घातिकर्मेत्युच्यते । वेदनीयं नामिकं गोत्रिकमायुष्कमिति चतुर्विधमघातिकर्म । तद्धि शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम् । तत्र वेदनीयं नाम शुक्रपुद्गलविपाकहेतुः । तन्निबन्धोपि न मोक्षपरिपन्थी । तत्त्वज्ञानाविघातकत्वात् । शुक्रपुद्गलारम्भकं वेदनीयकर्मानुगुणं नामिकं कर्म । तद्धि शुक्र- पुद्गलसाद्यावस्थां कललबुद्बुदादिरूपामारभते । गोत्रिकं त्वव्याकृतं ततोऽप्याद्यं शक्ति- रूपेणावस्थितम् । आयुष्कं तूत्पादद्वारेणायुष्कायति कथयतीति । तान्येतानि शुक्रपुद्गलाश्र- यत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं पुरुषबन्धकत्वाद् बन्ध इत्युच्यते । मोक्षस्तु विग- लितसमस्तक्लेशत्तद्वासनस्य अनावरणज्ञानस्य सुखैकतानस्य स्वरूपाविर्भावः । तादृशस्य उपरि- देशावस्थानं वा । स च बन्धनिवृत्तौ नित्यसिद्धार्हदनुग्रहाद् भवतीति । एवं जीवाद्यः पदार्था व्याख्याताः । एतत् सर्वं वस्तुजातं सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैका- न्तिकमिच्छन्तः सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यः, स्यादस्ति च स्यान्नास्ति चावक्तव्यश्चेति । स्याच्छब्दो निपातः । यथाहुः । रश्मिः । योग्यम् । कर्मेति । कर्माणि बहूनि येषु मार्गेषु । विप्रतीति यथाऽस्मन्मते कर्मचितशुद्धस्य भक्तिः सा नास्तीत्येवं विप्रतिषिद्धेषु । ज्ञानेति यथाक्रमं बोध्यम् । शुक्रेति सलिलं शुक्र- पुद्गलस्तस्य जाठराग्निवायुभ्यामीषद्धनीभावो विपाकस्तस्य हेतुः । तन्निबन्धः कललबुद्बुदावस्था निबन्धः । तत्त्वेति शुक्रपुद्गले शरीरे तत्त्वज्ञानात् । अव्याकृतमित्यादि रूपनामभ्यामव्याकृ- तम् । कललबुद्बुदादितोपीति ततोऽपीत्यस्यार्थः । शक्तीति तस्य तत्त्वज्ञानानुकूलदेहपरिणाम- शक्तिर्गोत्रिकमिति रत्नप्रभा । उत्पादेति रत्नप्रभायां तु शुक्रशोणितमिश्रितमायुष्कम् । शुक्रपुद्गलः सलिलमिति व्याख्यातम् । मोक्ष इति विगलिताः समस्ताः क्लेशाः तद्वासनाः क्लेशजनक- संस्कारा यस्य ज्ञानस्य पुंसः, न विद्यते आवरणं यस्य तस्य स्वाभाविकस्य, तादृशस्येति उक्तपुंसः । स चेति मोक्षः । अनैकान्तिकमिति अनिश्चितं वादकवलितमित्यर्थः । सप्तेति सप्तानां भङ्गानां अस्तित्वादीनां समाहारः सप्तभङ्गी तस्या नयो न्यायस्तम् । अस्तित्वनास्तित्वविरुद्धधर्म- द्वयमादायैकस्मिन्घटपटादौ योजयन्तीत्यर्थः । स्यात्पूर्वकाः षट् । सप्तमस्तु स्यात्पूर्वकः स्यान्मध्यमश्च एते सप्तभङ्गा इति व्यवह्रियन्ते । स्याच्छब्दोऽभीष्टवचन इत्युक्तम् । अभीष्टं घटाद्यस्तीत्यर्थः । अभीष्टं घटादि नास्तीति द्वितीयमङ्गार्थः । यदि स्यात्कथंचिदर्थकं तदा घटत्वादिरूपेण कथंचिदस्ति । सदेकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्राप्तये यत्नो न स्यादतः प्राप्तत्वादिरूपेण कथंचिन्नास्तीत्यर्थः । वस्तुनोऽस्तित्ववाञ्छायामाद्यः स्यादस्तीति भङ्गः । प्रवर्त्तनास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयः । क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयः । युगपदुभयवाञ्छायामस्ति नास्तीति पदद्वयस्य सकृदुक्तुमशक्यत्वात्स्यादवक्तव्यश्चतुर्थः । आद्यचतुर्थभङ्गयोर्वाञ्छायां पञ्चमः स्यादस्ति चाव- क्तव्यः । द्वितीयचतुर्थमङ्गवाञ्छायां स्यान्नास्ति चावक्तव्य इति षष्ठः । तृतीयचतुर्थमङ्गवाञ्छायां स्यादस्ति च स्यान्नास्ति चावक्तव्य इति सप्तमो भङ्गः, इति विभागो रत्नप्रभायां दर्शितः । 1274