अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1383, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०३ तद् विरोधेनासम्भवादयुक्तम् ॥ ३३ ॥ भाष्यप्रकाशः । 'वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः' इति । तदिदं दूषयन्ति तद् विरोधेनासम्भवादयुक्तमिति । अयमर्थः । योऽयं सप्तभङ्गीनयो नाम न्यायः सर्वत्रावतारितः स त्वयाभ्युपगतेषु जीवधर्माधर्मपुद्गलकालाकाशेषु तदवान्तरविधासु अस्तिकायादिषु तद्धर्मेषु आस्रवसंवरनिर्जरेषु बन्धमोक्षसाधनेषु तत्तत्फले बन्धे मोक्षे चावतरन् सर्वानैव त्वदुक्तान् पदार्थान् सत्त्वासत्त्वादिभिः स्वरूपतो नित्यत्वानित्यत्वादिभिर्धर्मतोऽवस्थातश्च सन्दिग्धान् कुर्वंस्तद्दर्शनस्यातिपेलवत्वं तीर्थकरस्यार्हतश्च भ्रान्तिमेव द्योतयन् प्रेक्षावत्प्रवृत्तिमेव निरुणद्धीत्युक्तम् । न च यथा घटो घटरूपेणास्ति, पटरूपेण नास्त्येवं सर्वं स्वरूपेणास्ति रूपान्तरेण नास्तीति कथमसंभव इति वाच्यम् । एवं सति येन रूपेणास्ति तेन रूपेणास्त्येव, येन नास्ति तेन नास्त्येवेति तत्तद्रूपे तत्तद्भेदे तद्विरुद्धभङ्गासंभवाद्, वस्तुतस्तु विषयभेदेनास्तिनास्त्योस्तत्रैकान्त्या- द्भञ्जकतया भङ्गत्वस्यैवाभावाच्च सप्तभङ्गीनयस्यासार्वत्रिकप्रसङ्गः । यदि च तत्राप्यस्ति सप्त- भङ्गी, तदा तत्पदार्थस्वरूपमस्तीत्यपि स्यान्नास्तीत्यपीति स्वरूपानध्यवसानप्रसङ्गः । किंच । ये भङ्गरूपाः सप्तार्थास्तत्रापि सप्तभङ्गीसद्भावादेकोनपञ्चाशद्भङ्गीति प्रसङ्गः । तेऽपि यथा त्वयो- च्यन्ते तथाऽन्यथा वेत्यनध्यवसानप्रसङ्गश्च । नच सर्वमनैकान्तिकमित्यवधारणं निश्चितमे- वेति वाच्यम् । अवधारणस्य सर्वमध्यपातेन तत्रापि सप्तभङ्ग्युपनिपातात् तस्याप्यनिश्चयप्रस- ङ्गात् । अतो भङ्गानां परस्परविरोधेनैकस्मिन् धर्मिण्यसंभवादयुक्तमेवेदं दर्शनमिति । किंच । या एषा सप्तभङ्गी एकैकस्मिन् योज्यते सा केन प्रमाणेन, कुत्र वाऽवधृता इति वक्तव्यम् । प्रत्यक्षेणैव सर्वत्रेति चेन्न । सर्वत्रावध्रियमाणस्य सर्वजनीनत्वदर्शनान्न तत्र वादिनां विप्रति- पत्तिः स्यात् । प्रत्यक्षस्य निश्चयाङ्गीकारे च तत्र नास्तीत्यादिभङ्गनिवृत्त्या त्वन्न्यायस्य सार्व- त्रिकत्वं च भज्येत । कथनादवक्तव्यत्वं भज्येत । एवं प्रमाणान्तरेणावधारणेऽपि ज्ञेयम् । रश्मिः । वाक्येष्विति सप्तसु । गम्यं अस्ति नास्त्यादि । अर्थयोगित्वं अर्थविशेषणत्वम् । सर्वत्रेति घटपटादौ । सत्त्वासत्त्वेति सत्त्वं स्यादस्ति असत्त्वं स्यान्नास्तीत्यादिपूर्वोक्तप्रकारेण । नित्यत्वेति नित्यत्वं स्यादस्ति अनित्यत्वं स्यान्नास्तीत्यादिप्रकारेण । सन्दिग्धानिति विरुद्धकोटि- द्वयावगाहिज्ञानविषयान् । अतिपेलेति पिल क्षेपे चुरादिः परस्मैपदी अत्यन्ताक्षेपवत्त्वम् । अतिपेशलत्वं वा अतिक्रान्तपेशलवत्त्वम् । भ्रान्तिमिति । यथा रजुः सर्प इत्यत्र तामसे ज्ञाने तमसि रजोवैशिष्ट्ये रजुर्वा सर्पो वेति संशयो विशेषदर्शनोत्तरमपि तथा । प्रेक्षावन्तः पण्डिताः । अयं दोषो नैयायिकप्रसिद्धिं विरुणद्धीति । वस्तुतस्तुपक्षमाहुः वस्तुत इति । विषयेति । स्यादस्तीत्यत्रास्तीत्यस्य विषयः स्यात्पदवाच्यो घटादिः सत्ताश्रय इत्यर्थः । स्यान्नास्तीत्यत्र नास्तीत्यस्य विषयः प्रतियोगी स्याद्वाच्य इति विषयभेदेनेत्यर्थः । ऐकान्त्येति निश्चयामञ्जकतया । तत्रापीति । विषयभेदेऽपि । स्वरूपेति । अध्यवसानं निश्चयः । एकेनेति सप्तानामेकैकस्य सप्तधा विभागे एकोनपञ्चाशद्भङ्गी भवतीति । समुदाये सप्तभङ्गयोजने यो दोषस्तमाहुः त इति सप्तभङ्गाः । अध्यवेति । निश्चयप्रसङ्गः प्रथमद्वितीयभङ्गाभ्यामित्यर्थः । अनैकान्तिकमनिश्चितस्वरूपम् । निश्चयेति स्यादस्तीति प्रथमभङ्गाङ्गीकारे । कथनादिति प्रत्यक्षेण स्यादस्तीति कथनादवक्तव्यत्वं चतुर्थो भङ्गो भज्येत । प्रमाणान्तरेति अनुमानादिना प्रथमभङ्गाङ्गीकारे द्वितीयादिभङ्गनिवृत्ति- 1275