भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1384, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1384

यदि च सर्वं वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वादिकं व्युत्पाद्यते । पर्यायात्मना च तद्विपरीतं व्युत्पाद्यते पर्यायाश्च द्रव्यस्यावस्थाविशेषास्तेषां भावाभावरूपत्वा- दिकं सर्वमुपपन्नमित्युच्यते तदाप्येकस्य वस्तुन एकस्मिन् कालेऽस्तित्वनास्तित्वयोरसंभव एव । उत्पादविनाशशालित्वतद्वैपरीत्यरूपानित्यत्वनित्यत्वयोश्चासंभव एव । इदं च कालभेदेऽपि न संभवतीत्ययुक्त एवायमभ्युपगमः । यत्तु कश्चिदनन्तवीर्यनामा स्याद्वादी । 'तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यान्निषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायवान् । युगपद्विवक्षायां स्यादवाच्यमशक्तितः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥ समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते' । इति परेच्छाकृतव्यवस्थया सप्तभङ्गान् प्रतिपादयामास । युगपदस्तित्वनास्तित्वयोर्विवक्षायां क्रमवर्तित्वादुभयं युगपदवाच्यम् । आद्यास्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्यः । अन्त्य- श्वाद्येन भङ्गेन सह युगपदवाच्यः । समुच्चितरूपश्चान्य एकैकेन सह युगपदवाच्य इति तदर्थ माह । अत्रोच्यते । ये एते सप्तभङ्गा विवक्षाभेदेनोपपादितास्ते किं वस्तुनो नैसर्गिका धर्मा, आगन्तुका वा, आरोपिता वा, तद्विषया वा । नाद्यः । नैसर्गिकस्य धर्मस्य स्वभावत एव वस्तुपु रित्यर्थः । अनुमानं तु सर्वः प्रथमभङ्गः स्यादस्ति, प्रकारान्तरदर्शनात् । घटादिवत् । न चात्र पक्षतावच्छेदकसाध्यतावच्छेदकयोरैक्यमिति सिद्धसाधनमिति वाच्यम् । सिषाधयिषासत्त्वेन सिषाधयिषाविरहविशिष्टयाः सिद्धेरभावो वर्तत इति पक्षतासत्त्वे सर्वत्वस्य पक्षतावच्छेदकत्वेन तयोर्भेदात् । एवं शब्दप्रमाणेनावधारणं प्रथमभङ्गः स्यादस्तीति । एवमुपमानमपि । प्रथमभङ्ग- स्तुतीयभङ्गसदृश इति प्रथमभङ्गपदार्थमजानन्तं प्रत्युक्ते प्रथमभङ्गदर्शने नास्ति चेत्यंशाभावादयं प्रथमभङ्गपदवाच्य इत्युपमितिरिति । द्रब्येति । अवस्थात्र पर्यायः कललद्बुदुदादिः शक्तिरूपा आयुःकथनरूपा च । इदं चेति उत्पादविनाशशालित्वरूपमनित्यत्वं तद्वैपरीत्यरूपं नित्यत्वं चैकस्मिन्वस्तुनि कालभेदेपि न संभवतीत्यर्थः । तद्विधानेति वस्तुविधानकथनपरवाञ्छायाम् । स्यादस्तीति घटादिः कथंचिदस्तीति । तन्निषेध इति वस्तुनिषेधे । उभयेति वस्तुविधान- निषेधवाञ्छायाम् । समुदायवान् तृतीयभङ्गवान् । चतुर्थमाह युगपदिति । तद्विवक्षायां भावाभावविवक्षायाम् । पञ्चम इति स्यादस्ति चावक्तव्यः । अन्त्येति स्यादस्ति सान्नास्ती- त्येनयोरन्त्यः स्यान्नास्तीति तस्यावाच्यविवक्षायाम् । षष्ठेति स्यान्नास्ति चावक्तव्य इत्यस्य भङ्गस्य समुद्भवः । समुच्चयेनेति । षष्ठपञ्चमौ चकारेणोक्तौ अवक्तव्यसमुच्चये एकेनान्यकेनायुक्तः । सप्तम इति स्यादस्ति च स्यान्नास्ति चावक्तव्यः । परेच्छेति स्वस्वेच्छायां तु हृदये व्यवस्था कृता स्यात् । क्रमेति उभयोः क्रमवर्तित्वात् । असत्त्वेति द्वितीयभङ्गेन । समुच्चितेति । षष्ठ- पञ्चमावक्तव्यसमुच्चयरूपः । अन्य इति सप्तमः । एकैकेनेति आद्येन सहान्यस्यान्येन सहाद्यस्य । तदर्थमिति । युगपदिति कारिकाद्वयार्थः । नैसर्गिका इति घटत्वादय इव । आगन्तुका इति सन्निद्वत्वादय इव । आरोपिता इति शुक्तिरजतादय इव । तद्विषया आरोपविषयाः ।

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1384, कुल 2600 में से · BharatKosha