अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1385, कुल 2600 में से
संदर्भ में पढ़ेंएवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ ननु कथं बहिरुदासीनस्य तद्दूषणमत आह । एवमपि सति आत्मनो वस्तुपरिच्छेदादकार्त्स्न्यं न सर्वत्वम् । अथवा शरीरपरिमाण आत्मा चेत् तदा सर्वशरीराणामतुल्यत्वादात्मनो न कार्त्स्न्यं न कृत्स्नशरीरतुल्यत्वम् ॥ ३४ ॥ भाष्यप्रकाशः। सृष्ट्याया नियततया सप्तानामपि भङ्गानां विवक्षां विनापि सप्तप्रकारैर्विधानान्निवेशनस्य तत्राप्रयोजक- त्वात् । न द्वितीयः । एकान्तस्य कस्यापि नैसर्गिकस्याभावे आगन्तुकस्यापि दृष्टविरोधेनाशक्य- वचनत्वात् । अत एव न तृतीयोपि । आरोपितैर्धर्मैर्वास्तवधर्मैर्वैकान्त्यस्य कर्तुमशक्यत्वेन तस्य वैयर्थ्याच्च । न तुरीयः । अनया भङ्गकल्पनया नैसर्गिकस्यानेकान्तित्वायोगात् । नाप्येशां नैसर्गिक- त्वम् । परस्परविरोधप्रदर्शनेन प्राचीनैरेव दूषितत्वात् । अतः सप्तानां भङ्गानामितरेतरविरोघे- नासंभवादयुक्तमेवैकत्र निवेशनम् ॥ ३३ ॥ एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति एव- मित्यादि । एवमात्मनिष्ठतया तद्दूषणेऽङ्गीकृतेऽपि सति परमाणुभ्य एव सज्जङ्गीकारे- णात्मनो वस्तुपरिच्छेदाङ्गीकाराद् अकार्त्स्न्यं सर्वत्वं न भवति । तथा च मोक्षदशायाम- लोकाकाशवर्तित्वेन तत्कृतावरणसंभवाभिरावरणप्रतिज्ञाहानिः । किंच । सर्ववस्तुष्वारमाभा- वादात्मनामस्तिकायतप्रतिज्ञाहानिरेवेत्यर्थः । अथाकाशावरणं नावरणम् । दिगम्बरेष्वना- वृतत्वव्यवहारात् । आत्मनामसर्वत्वेपि जातित्वत् तत्र तत्र व्याप्तेः सुवचनत्वेन जीवास्ति- कायस्य न हानिरित्याशङ्क्य पक्षान्तरमाहुः अथवेत्यादि । यथा बहिर्विरोधेन सप्तभङ्गामोघो दूषणम्, एवमेव देहपरिमाणात्मवादाङ्गीकारेण देहानां सर्वेषां व्यक्तिभेदेनावस्थाभेदेन च रश्मिः। अप्रयोजकेति अप्रयोजकत्वापातात् । एकान्तस्येति निश्चितस्य धर्मस्येत्यर्थः । अभावे इति यथा ब्राह्मण्यादेः 'त्रिभिर्नश्यति ब्रह्मत्वं हालाहलहलाहैः' इति वाक्यात् । दृष्टेति दृष्टान्तसिद्ध- त्वादि । अत एवेति आरोपितानामागन्तुकत्वविशेषादेव । वास्तवधर्मैरिति शास्त्रधर्माणा- मनिमित्तत्वस्य । तस्येति आरोपितभङ्गस्य । अनयेति आरोपविषयभूतया । नैसर्गिकस्येति नैसर्गिकस्य घटत्वादेः । अनेकान्तिकत्वमनिश्चयविषयत्वं तस्यायोगात् । भङ्गानामेवारोपविषयत्वात् । आरोपविषयः सोऽनेकान्तिक इति शुक्तिरजतादौ दर्शनात् । तथा चानेकान्तिकवादार्थं भङ्गाङ्गीकारो व्यर्थ इत्यर्थः । एषामिति भङ्गानाम् । प्राचीनैरिति । एकत्रेति यद्यपि तु सर्वं विरुद्धं संभवति । विद्वत्त्वस्यात् 'नहि विरोध उभयं भगवति' इति शब्दाच्च ॥ ३३ ॥ एवं चात्माऽकार्त्स्न्यम् ॥ ३४ ॥ तद्दूषणे तन्मते दूषणे । आत्मन इति । जगति समवायाकाङ्क्षापूरणार्थेत्यर्थः । वस्तु शरीरं तेन परिच्छेदस्तत्सङ्गीकारात् । वस्त्वात्मा वा । सर्वत्वमिति । तथा च देहमात्रमात्मेति घटपटादिरूपताकाशरूपता च न भवति । आलोकेति लोकोत्तराकाशवर्तित्वेन । तत्कृतेति भाकाशकृतेत्यर्थः । तत्र जीवमिश्रित्त्वावरणं संभवति । अस्तिकायत्वेति जीवोस्तिकायः जीवोनेकदेशवर्ति द्रव्यमिति प्रतिज्ञाया हानिः । जातित्वदिति । एष सामान्यं विकल्पमात्रमभ्युपगच्छति न वस्तु तस्य च विकल्पवदित्यर्थः । तत्र तत्र घठपटादौ । १४ ब्र० सू० २० 1277