भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 139, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 139

५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः। बोध्येत तादृशप्रमाणसामग्र्यनुपलम्भात् । न च, विद्यां चाविद्यां च यस्तद्वेदोभयं सह,' 'सत्येन लभ्यस्तपसा ह्येष आत्मा' इत्यादिश्रुतिरेव क्रमे प्रमाणमिति वाच्यम् । समुच्चयमात्रबोधनेन चारितार्थ्यात् । किंच । धर्मो न यथाकथंचिज्ज्ञातो विद्यया समुच्चेयोऽपि तु निर्णीतस्वरूपः । निर्णयस्तु यथा कर्मस्वरूपविषयकः पूर्वतन्त्रात्, तथा कर्मशेषभूतपुरुषस्वरूपविषयकस्तदाराध्य- भूतब्रह्मस्वरूपविषयकश्चोत्तरतन्त्रात् । अतोऽभ्यर्हितत्वात् पूर्वं वेदान्तविचारेण तदवगन्तव्यम् । नानावादैरात्मस्वरूपे ब्रह्मस्वरूपे च विप्रतिपन्ने वैदिकानां वेदवाक्यैरेव तन्निरासस्यावश्यकत्वात् । ज्ञाते तयोः स्वरूपे कर्मणि सुखेन प्रवृत्तिसंभवादिति । नचाध्ययनादिविधेः कर्मावबोधनस- मर्थेषु पुरुषेषु चरितार्थत्वेन, शान्तो दान्त इत्यादिश्रुत्युक्तसाधनान्तरसापेक्षब्रह्मज्ञानोपायभूत- शमाद्याक्षेपात्सामर्थ्यात् पूर्वं धर्मविचारस्यैव प्राप्तिरिति वाच्यम् । शान्तो दान्त इति श्रुतौ पश्येदि- तिपदाच्छमादीनां दर्शनसाधनत्वेन विचारे तदपेक्षाभावात् । प्रह्लादकन्यादिवदबाल्यान्मुमुक्षाश- मादिमत्सु तदप्रवृत्तौ तेषां विचारमात्रप्रसक्तेर्यथाकथंचित् प्रवृत्तौ वाऽभ्यर्हितस्यैव ग्राह्या नियम- भङ्गाच्च तदेतदुक्तम् । रश्मिः । दैककर्म्यं समुदितस्यैव फलमिति चिन्तितं तद्वदित्यर्थः । अत्र क्रियत इति व्युत्पत्त्या कर्मफलं ऐककर्म्यमेकफलत्वम्, क्वचित्तु सूत्रे पृथक्त्वं ततः स्यादिति पठ्यते । सत्तामिति न पठ्यते । नचेत्यादि । अविद्यां कर्मरूपमित्यर्थः । ज्ञानमेवेच्छां प्रयुञ्जानो यत्नं संपादयतीत्यालोच्याहुः किंचेति । कर्मशेषेत्यादि । एतच्च तृतीये 'द्रव्यगुणसंस्कारेषु बादरिः' इत्यधिकरणे चिन्तितम् । पूर्वमिति 'अभ्यर्हितं च' इति सूत्रेणेत्यर्थः । ननु मीमांसायाः न किमपि प्रयोजनं पश्यामः, आदि- ज्ञानस्यान्यत एव संभवादित्यत आहुः नानावादैरिति । विप्रतिपन्ने इति विविधप्रकारैर्ज्ञाते इत्यर्थः । वेदवाक्यैरिति वेदवेदान्तवाक्यैः विचारविषयैः मीमांसासूत्रविषयवाक्यैरित्यर्थः । तन्निरासस्येति विप्रतिपत्तिगतसंशयनिऱासस्यापि । प्रवृत्तीति, इच्छाद्वारा प्रवृत्तिसंभवात्, जानाति इच्छति यतत इति नैयायिकप्रवादात् । दृष्टानुवादिनीं 'शान्तो दान्तउपरतस्तितिक्षुश्रद्धान्वितो भूत्वात्मन्येवात्मानं पश्येत्' इति श्रुतिमनुरुध्य विपर्ययामाशङ्कय तामपाकुर्वते न चाध्ययने- त्यादि । पूर्वं धर्मविचारस्यैवेति । वैधत्वादिति भावः, अन्यथा श्रुतिविरोध इति भावः । विचारितधर्मेण विशेषचित्तशुद्धिः शमदमादिकारणम् । तदपेक्षाभावादिति शमाद्युपेतत्वेपि दर्श- नानापेक्षत्वादित्यर्थः । तेन शमदमाद्युपेतसूत्र (श्रुत्यविरोधात्) विरोधः । तथा च श्रुतिविरो- धाद्वेदविचारविधिस्तदन्तेपि प्रवर्त्तते, न तु विध्यन्तरमादरणीयं संभवेपीत्याशयः । तदप्र- वृत्ताविति । शान्त्यादिसमुत्पाद्य आत्मानं पश्येदिति श्रुतिस्फूर्तेः शान्त्याद्युत्पादनाय विध्यप्रवृत्ता- वित्यर्थः । सत्तामात्रमवलंब्यादेव पूर्वोक्तनिरस्तिं मन्यमाना आहुः यथाकथंचिदिति । भक्तिमार्गी- याणां स्वत एव शमादिसत्त्वेन वैधशमादिसत्तामात्रं मवलम्ब्याङ्गिमार्गीयाणां शमादिविधिप्रवृत्तौ । नियमभङ्गाच्चेति । धर्मब्रह्ममीमांसयोः पूर्वापरीभावनियमभङ्गादित्यर्थः । तदेतदुक्तमिति । तथा हि न तावद्धर्मविचारानन्तर्यम्, विपर्ययसंभवादिति भाष्येणेत्यर्थः । तत्रापि तथा 52

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 139, कुल 2600 में से · BharatKosha