अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 140, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ की सामग्री का देवनागरी में पंक्तिबद्ध लिप्यन्तरण प्रस्तुत है:
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ५३ नच पाठतो नियमः। तत्रापि तथा। नचाऽऽचाराद् व्यवस्था। तत्राप्यनि- यमसम्भवात् । प्रत्यवायाश्रवणात् । संभवेपि न वरूढत्वमध्ययनवत् । तथाच ततोऽप्याकाङ्क्षा भवेत् । नच वैराग्यशमदमादिः पूर्वसिद्धंः। भाष्यप्रकाशः। ननु पूर्वं धर्मकाण्डं पठ्यते, अनन्तरं ज्ञानकाण्डमिति पाठस्य क्रमनियामकत्वमस्त्विति चेत् तत्राहुः नचेत्यादि। पाठक्रमे विद्यमानेऽपि पूर्वकाण्डं न सर्वैरादित आरभ्य पठ्यते। अपि तु यतःकुतश्चित् । अतोऽवान्तरकाण्डक्रमनियमवज्ज्ञानकाण्डक्रमनियमस्यापि शुक्त्यवचनत्वात् तत्रापि तथेत्यर्थः। ननु पाठः शिष्टाचारादनियतोऽस्तु, न तु विचारोऽपीत्यत आहुः नचा- चारेत्यादि । प्रत्यवायाश्रवणस्योभयत्र तौल्यात् तथेत्यर्थः । ननु धर्मस्य ब्रह्मबोधहेतुत्वात् तद्वि- चारोपयुक्तानां श्रुतिलिङ्गादीनां वेदचोदनार्थवादस्मृत्यादिप्रामाण्यप्रतिपादनानां ब्रह्मविचारोप- युक्तत्वाच्च धर्मविचारानन्तर्ये ब्रह्मविचारस्य नियमेन संभवतीति चेत् तत्राहुः संभवेपीत्यादि । स्फुटार्थमेतत् । ननु तर्हि, नित्यानित्यवस्तुविवेकः, ऐहिकामुष्मिकभोगविरागः, शमदमादिसाधनसंपन्मुमु- क्षुत्वं चेति शंकराचार्य्यादृतं साधनचतुष्टयानन्तर्यमाद्रियतामित्याशङ्कायाम्, भास्कराचार्यैर्यदपि शमदमादयोऽन्तःकरणधर्माः पूर्वं न प्रकृताः स्वशब्देन चानिर्दिष्टा इति सूत्रकारस्य न विवक्षिता इत्येव दूषणं दत्तम् । रामानुजाचार्यैश्च पूर्वमीमांसोक्तकर्मफलकरणेतिकर्तव्यताधिकारिविशेषा- निश्चयानन्तरभावितदनित्यत्वज्ञानाऽऽत्मनित्यत्वज्ञानाधीनतया शास्त्रद्वयविचारोत्तरभावित्वं दूष- णमुक्तम् । तथापि तन्न तथा स्फुटमिति प्रकारान्तरेण दूषणमाहुः नचेत्यादि । तदानन्तर्ये तदा रश्मिः। इत्यादि भाष्यं विवृण्वन्ति स्म ननु पूर्वमिति । तत्रापि तथेत्यर्थ इति पाठतो नियमेपि विपर्ययसंभवादित्यर्थः । तेन तत्रापि तथेति भाष्यमपि विवृतम् । उभयत्रेति पाठे विचारे चेत्यर्थः । ब्रह्मविचारेंति । यथानिरपेक्षो रवः श्रुतिः 'साच 'अथातो ब्रह्मजिज्ञासा' इत्यत्र विग्रहदशायां ब्रह्मण इति शेषषष्ठीश्रुत्या ब्रह्मसंबन्धिनां जिज्ञासार्थत्वमिति विनियोगः । 'आकाशस्त- ल्लिङ्गात्' इत्यत्र लिङ्गं, 'वाक्यान्वयात्'इत्यत्र वाक्यं, 'प्रकरणाच्च' इत्यत्र प्रकरणं, देशकालौ प्रकरणमिति निबन्धकारिकाविरोघेन, स्रानं द्रष्टव्यं, 'स्वपीति इत्याचक्षते स्वमपीतो भवति'इति अत्र अतिदेशसामान्यरूपात्स्थानात् स्वमपीतोऽर्थः, न तु स्वापनिमित्तकारणरूपकर्तेत्यर्थः । समाख्या यौगिकश्च शब्दः सापि 'अथातो ब्रह्मजिज्ञासा' इत्यत्र बृहत्त्वात् बृंहणत्वाच्च ब्रह्मेति योगात् यौगिकः शब्दः । स्ववाक्यस्वरूपलक्षणोक्तपदार्थानां ब्रह्मणश्च संनिधिं कल्पयति संनिहितयोः परस्पराकाङ्क्षयोरेकवाक्यत्वं प्रकल्प्य सामर्थ्यं चालोच्य ब्रह्मणः सत्यादिपदानां सामानाधिकरण्यं कुर्यादिति श्रुतिकल्पनेन ब्रह्मयौगिकार्थस्य तत्पदार्थैक्यं बोधयति । स्फुटेति अनन्यलभ्यस्य शब्दार्थत्वात् । अत्र अयमशब्दार्यत्वेन वक्तव्यधर्मसाक्षेपलभ्यत्वादित्येवं स्फुटार्थम् । भाष्ये । तथा च ततोपीत्यादि आक्षेपलभ्यत्वे च तं श्रुतिलिङ्गादिकमानन्तर्यनिरूपकमपलम्व्याप्यधिकाम्हा भवेदित्यर्थः । प्रकृते । स्वशब्देन चेति समादिवाचकशब्देन चेत्यर्थः । पूर्वमीमांसेत्यादि पूर्व- मीमांसोक्ताः कर्म च फलं च करणं चेतिकर्तव्यता चाधिकारिविशेषश्चैतेषां निश्चयानन्तरभाविनी यद् 53