भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 141, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 141

५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ तेषामेवाभावात् । न च यदैव संभवस्तदैव तत् कर्तव्यमिति वाच्यम् । तदसंभवापत्तेः । तथाहि । ब्रह्मणः परमपुरुषार्थत्वे ज्ञाते तज्ज्ञानस्यैव साधनत्वेऽ- वगते तच्छेषत्वे च यागादीनामवगते तदर्थकर्मकरणे चित्तशुद्धौ सत्यां वैराग्यादि । इदं च वेदान्तविचारव्यतिरेकेण न भवतीत्यन्योन्याश्रयः । भाष्यप्रकाशः। युज्येत 'यदि तत्सत्ता पूर्वं स्यात् । सा त्वतिदुर्लभा । न हि नित्यानित्यवस्तुविवेकमन्तरेणेहा- मुत्रार्थभोगात् पुरुषो विरज्यते । न वा सांख्यदर्शनात्यन्ताभ्यासात्तदुदितसाधनाद्यन्तरेण तादृश- विवेक उदेत्युदिते वा सर्वः शाम्यति दाम्यति वा । दुर्वासःप्रभृतिष्वपि तदभावस्य स्मरणात् । कथंचित् किंचित् कस्यचित् कदाचित् संभवेऽपि न सर्वसाधनानि तथा । तदेतदुक्तं, तेषा- मेवाभावादिति । तथाच समुदितसाधनचतुष्टयसंपदत्यन्तदुर्लभेति तदानन्तर्यमत्र न शक्यवच- नमित्यर्थः । सांख्याभ्यासाभावेऽपि लौकिकदुःखादिना विरज्यमाना दृश्यन्ते । किंचित्काम- नयापि शाम्यन्ति दाम्यन्ति चेत्युक्तविवेकसहितवैराग्याद्यानन्तर्यमप्यत्र न युक्तम् । तदपायस्य भूयोदर्शनादित्याशयेन वैराग्यादीनामेव ग्रहणम् । ननु केषांचित् पूर्वं वैराग्याद्यभावेऽपि पश्चात् तानि दृश्यन्त इति तदानन्तर्यादरणे को दोष इत्यत आहुः न च यदैवेत्यादि । तदसंभवा- पत्तेरिति वैराग्यादेर्विचारस्य चासंभवापत्तेरित्यर्थः । कथमिदमित्याकाङ्क्षायामेतदेव विभजन्ते तथाहीत्यादि । दर्शनान्तराभिमानिनां ज्ञानकर्मसमुच्चयवादात् तत्तदुक्तज्ञानानां च भिन्नविध- त्वात् तत्तदभिमतरीत्या साधनीभूतयागानुष्ठाने विवक्षितविचारोपयोगिचित्तशुद्ध्यभावात् रश्मिः । आत्मातिरिक्तस्यानित्यत्वज्ञानात्मनित्यत्वज्ञाने तदधीनतयेत्यर्थः । कथंचिदिति ज्योतिषपश्वाङ्गादि- प्रकारेण । कस्यचिदिति । नित्यानित्यवस्तुविवेकादौ यस्यकस्यचित् । कदाचिदिति अस्मदा- दिर्दृष्टान्तः । तथेति सर्वत्वेन प्रकारेण संभवन्तीत्यर्थः । नन्वाशङ्काभाष्ये न च नित्यानित्यव- स्तुविवेकवैराग्यशमदमादिरिति वक्तुं युक्तम्, प्रथमत्यागे मानाभावादित्याकाङ्क्षायामभूतपूर्वोक्तविवेक- वैराग्यादिरपि नानन्तर्यनिरूपक इति बोधयितुं तयोपन्यास इत्याहुः सांख्याभ्यासेत्यादि । कामनयेति शमजन्यफलकामनया, दमजन्यफलकामनया च । भूयो दर्शनादिति । अस्मदादिर्दृष्टान्तः । तानीति वैराग्यादीनीत्यर्थः । असंभवेति अन्योन्याश्रयस्य द्विनिष्ठ- त्वात् द्वयस्यासंभव उक्तविकल्पेन । इदमिति पूर्वोक्तम् । एतदिति समीपतरवर्तिभाष्यम् । विभजन्ते व्याकुर्वते । धर्मविचारस्य ब्रह्मशब्दसूचितस्य भाष्ये विचारात् समुच्चये स्फुरिते तेन सहैवाहुः दर्शनेति । भिन्नविधत्वादिति । स्मृत्यात्मकं ज्ञानं भक्तिरूपं साधनमिति रामानु- जाचार्यमतम् । मध्वमते ज्ञानं भक्त्यात्मकम् । नैयायिकास्तु 'द्रव्यगुणकर्मसामान्यविशेषसमवा- यानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः तच्चेश्वरनोदनाभिव्यक्ताद्धर्मादेवेत्युच्यत' इति भिन्नविधत्वादित्यर्थः । साधनीभूतेत्यादि । अयमर्थः । चित्तशुद्धिकारणता यागादेर्न सामान्य- रूपेण, तथा सति विलक्षणचित्तशुद्ध्यनुत्पत्तिप्रसङ्गेऽपि तु तृणारणिमणिन्यायेन तत्तच्चित्तशुद्धिजन- कत्वरूपेनेति तत्तन्मतीयविचारोपयोगिचित्तशुद्ध्युदयात् सिद्धान्तविचारोपयोगिचित्तशुद्ध्यभावा- दिति । एवमेव विचारचित्तशुद्ध्योरपि कार्यकारणभावः । विवक्षितेति । 'यदेकमव्यक्तमनन्त- 54