भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 142, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 142

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५

निर्धारिते तु वेदान्ते विचारो व्यर्थ एव । नच साक्षात्कारस्तत्फलम् । तस्य शब्दशेषत्वेन तत्कल्पनायां प्रमाणाभावात् । 'दशमस्त्वमसि' इत्यादौ प्रत्यक्ष-

भाष्यप्रकाशः ।

ब्रह्मणः परमपुरुषार्थत्वज्ञानार्थं, ज्ञानस्य केवलस्यैव साधनत्वज्ञानं चावश्यकमिति तदर्थं चैकदे- शिना वेदान्तविचारः पूर्वं मृग्यः । तथा सत्युक्तरीत्या तत्करणमिति चक्रकान्योन्याश्रय इति तदसम्भवापत्तिरित्यर्थः । नन्वध्ययनदशायां गुरुमुखात् साधनान्तराद्वा वेदान्तार्थे निर्धारिते सुखेन तत्सम्भवान्नान्योन्याश्रय इति शङ्कायां दूषणान्तरमाहुः निर्धारिते इत्यादि । विचारो ह्यर्थनिर्धारार्थः अर्थनिर्धारश्च वैराग्यादिप्रयोजकतया यदि पूर्वमभ्युपेतस्तदा फले जाते निःप्रयो- जनत्वात्रिःसंदिग्धविषयत्वाच्च स व्यर्थ इत्यर्थः । एवकारेण तदर्थकप्रवृत्तिविधातोपि संगृह्यते । [