अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 143, कुल 2600 में से
संदर्भ में पढ़ें५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ सामग्र्या बलवत्त्वात् देहादेः प्रत्यक्षत्वात् स्वदेहमपि पश्यन् दशमोऽहमिति मन्यते । न तथा प्रकृते । मनननिदिध्यासनविधीनामानर्थक्यप्रसङ्गात् । भाष्यप्रकाशः । नात् । तस्य प्रज्ञाचक्षुष्ट्वेन तया जायमानस्यापि चाक्षुषकल्पत्वाच्च न तृतीयः । तस्यात्मविस्मृ- त्यभावेन तत्र शब्दस्याकारणत्वात् । न च पूर्वविकल्पोक्तानामात्मनिष्ठमान्तरमेव दशमत्वं शब्दाद् भासत इति वाच्यम् । दशमत्वस्य वक्त्रपेक्षाबुद्धिजन्यत्वेन तस्यां च बुद्धौ संख्याघटकानां परात्मनां भानाभावेन स्वस्यापि दशमत्वाभानप्रसङ्गात् । अतो नवमत्वादिवद् दशमत्वस्यापि बाह्यत्वमेव । कृशोऽहमितिवद् दशमोऽहमितिप्रत्ययविषयस्यापि देहस्यैव वेद्यत्वाच्च । प्रकृते विचारे तु वेदान्तवाक्यैर्ब्रह्मत्वेनात्मसाक्षात्कारस्य तवाभिप्रेतत्वेन न तथा धर्मधर्मिणोरुभयोरप्यान्तरत्वान्न दृष्टान्तसाम्यम् । न हि समीपवर्तिभिरिन्द्रियैरग्राह्य आत्मा तद्ग्राह्येण बाह्येन शब्दप्रमाणेन ग्राहयितुं रश्मिः । ननु स्पर्शेनानुमानेन वा नवान्यान् ज्ञास्यतीति, तत्राहुः तस्येत्यादि । प्रज्ञा लिङ्गपरामर्शो व्याप्ति- ज्ञानं वा । चाक्षुषकल्पत्वाच्चेति । त्वाचत्वेनानुमितित्वेन च त्वदिष्टभावावादीषदूनचाक्षुष- त्वादित्यर्थः । अन्यथान्धस्य पुरोवस्थितो घटोऽस्तीति शब्दात् घटसाक्षात्कारापत्तिः । शब्दस्य कारणत्वे ततः पूर्वमात्मविस्मृतिः स्यादिति शब्दो न कारणमित्याहुः तस्यात्मेत्यादि । अभ्युप- गमवादेनाशङ्कां निषेधन्ति न च पूर्व्वेत्यादि । चक्षुष्मतो देहविशिष्टात्मवेदिनोऽन्धस्य तथावेदिनो विविक्तात्मवेदिनश्चेत्यर्थः । भानाभावेनेति । परमनोव्यावृत्तमनस एवात्मप्रत्यक्षजनक