अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 144, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५७ नचाधिकारिभेदः कल्पनीयः । शब्दज्ञाने तत्कल्पनायां प्रमाणाभावात् । भाष्यप्रकाशः। शक्यते। अथ दर्शनाव्यवधानेन श्रवणस्य विधानाच्छक्यत इत्युच्यते तदा मनननिदिध्यासनविधि- वैयर्थ्यम् । तथाच दृष्टान्तवैषम्य़ान्मनननिदिध्यासनविधिविरोधाच्चात्मसाक्षात्कारस्स न श्रवणफलत्वं विचारफलत्वं वा वक्तुं शक्यमित्यर्थः । ननु मुख्याधिकारिणः शब्दादपरोक्षं भवति, न तु मन्दा- देरिति तादृशेषु मननाद्युपयोगान्न तद्विध्यानर्थक्यमिति चेत्तत्राहुः न चेत्यादि । शब्दजन्ये ज्ञानेऽ- धिकारिभेदस्तदा कल्प्यो यदि स विधिवैयर्थ्यं समादध्यात् । न तु तथा। मन्दस्य पदशक्त्या- दिज्ञानशून्यतया मननाद्यसामर्थ्येन, मध्यमस्य च विदितपदपदार्थसंसर्गतयाऽऽकाङ्क्षादिबलेन दशमादिवदपरोक्षभवनसौकर्ये मननाद्यनुपयोगेन ताभ्यां तदसमाधानात् । तत्कल्पनायां श्रुतार्था- पत्तिरूपप्रमाणाभावादित्यर्थः । ननु विदितपदपदार्थसंसर्गस्यापि वाक्यतात्पर्याज्ञाने दशमादि- रश्मिः । श्यात् । ननु 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्यनुकूलं शब्दा- परोक्षमित्येवमाशङ्खामुखेन मननेत्यादिभाष्यमवतारयन्ति अथ दर्शनेत्यादि । शक्यत इति शब्दादपरोक्षं शक्यते । आशङ्काप्रतिविधानभाष्यं विवृण्वन्ति नन्वित्यादि । तादृशेष्विति भिन्नाधिकारिष्वित्यर्थः । न चेत्यादीति । न चाधिकारिभेदः कल्पनीय इत्यादित्येसत- द्गुणसंविज्ञानो बहुव्रीहिः । समाधानभाष्यं व्याकुर्वन्ति शब्दजन्य इत्यादि । नतु तथेति । अधिकारिभेदो विधिवैयर्थ्यं तु न समादधातीत्यर्थः । ताभ्यामिति मन्दमध्यमाभ्याम् । मनना- दिविध्यानर्थक्यानसमाधानादित्यर्थः । श्रुतार्थापत्तिरूपेति । प्रत्यक्षेण शब्देन वा प्रमितस्यार्थ- स्यान्यन्तरमन्तरेणानुपपद्यमानस्योपपत्तयेऽर्थान्तरकल्पनमर्थापत्तिः । सा च प्रमाणान्तरमिति मीमांसकाः । लाघवादनुमानमिति नैयायिकाः । अर्थान्तरकल्पनया समाधेयत्वेनोच्यमानस्य प्रमाणसिद्धस्यार्थस्य मिथः प्रतिघातरूपान्यथानुपपत्तिस्तत्र कारणम् । तात्पर्यवृत्तावन्तर्भाव इति मम प्रतिभाति । जीवन्देव- दत्तो गृहे नास्तीत्यस्य बहिःसत्त्वप्रतीतीच्छयोच्चारितत्वाद् गृहाधिकरणको जीवनविशिष्टबहिःस्थितदेव- दत्तप्रतियोगिको भाव इति सुखेन बोधात् । अथवा । गृहाधिकरणकजीवनविशिष्टबहिःस्थितदेव- दत्तनिष्ठा सत्ता तत्प्रतियोगिको भावस्तन्निष्ठा सेति बोधः । एवं पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादावर्थानुपपत्तावपि पीन इत्यस्य नक्तं भोजनानुषङ्गकपीनत्वे तात्पर्यात् न दोष इति । तस्मा- दन्यथानुपपत्तार्थापत्त्यां निवृत्तायां प्रमितयोः संसृष्टबुद्धिः प्रमेयप्रमारूपा भवतीति ज्ञेयम् । तथा च 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र प्रमाणसिद्धस्य आत्मा वा अरे द्रष्टव्यः श्रोतव्यः इति अंशस्यार्थान्तरकल्पनया समाधेयत्वेन उच्यमानस्य मन्तव्यो निदिध्यासितव्य इत्यस्यांशस्य च मिथः शेषशेषिभावे प्रतिघातः, श्रवणेनैवात्मदर्शनात् । इत्यमन्य- थानुपपत्तावर्यापत्तिकारणभूतायां प्राप्तायामत्र मन्तव्यो निदिध्यासितव्य इतिशब्देन प्रमितस्य मनननिदिध्यासनरूपस्यार्थस्य भिन्नाधिकारिरूपार्थान्तरमन्तरेणानुपपद्यमानस्योपपत्तये भिन्नाधिकारि- १. जीवनसंसृष्टगृहाधिकरणाभावयोर्मिथः प्रतिघातः । २. दर्शनस्य न श्रवणशेषित्वं शब्दादपरोक्षपत्तेः, किंतु प्रेमशेषित्वं प्रेम्णा दर्शनमिति । ३. मननस्य मीमांसारूपस्य न निदिध्यासनशेषित्वं किंतु अन्यथाभावनाविपरीतभावना निवर्तकत्वाद् तच्छेषित्वम् । 57
- ब्र० सू० २०