अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1399, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११9 विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनया वेदनिन्दया च विप्रतिषेधः । चकाराद् वेदप्रक्रियाविरोधः ४५ इति द्वितीयाध्याये द्वितीयपादे अष्टमं उत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥ भाष्यप्रकाशः । विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनेत्यादि प्रद्युम्नरूपं मनोऽनिरुद्धोऽहंकार इति करणत्वमहंकारत्वं चाभिधाय सर्व एते वासुदेवा आत्मान एवेति परमेश्वरत्वादिकल्पनया, शाण्डिल्यश्चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा इदं शास्त्रमधीतवानित्यादिरूपया वेदनिन्दया च स्वोक्त- विरोधो वेदविरोधश्चेत्यर्थः । वेदप्रक्रियाविरोध इति तप्तचक्रादिधारणरूपसाधनप्रकारविरोधः॥८॥ एवं च मोक्षधर्मे नरनारायणीये 'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ॥ अपान्तरतमश्चैव वेदाचार्यः स उच्यते । प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः । ऊचिवानिदमव्यग्रो ज्ञानं पाशुपतं शिवम् ॥ पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वपि नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । न चैनमेवं जानन्ति तमोभूता विशांपते ॥ रश्मिः । विप्रतिषेधाच्च ॥ ४५ ॥ एत इति संकर्षणादयः । इत्यादीति आदिशब्देन पञ्चापि शास्त्राणि रात्रियन्तेऽत्रेति वेदनिन्दा । पञ्च शास्त्राणि तु वेदवेदान्तसांख्ययोगपशुपतिरूपाणि । विप्रति- षेध इत्यस्यार्थमाहुः स्वोक्तेति स्वोक्तस्य सर्व आत्मानः इत्यस्य विरोधे गौरवप्रसङ्गात् । वेदेति वेदेषु परं श्रेयोऽलब्ध्वेति वचनाद्वेदविरोधश्चेत्यर्थः । तप्तेति तच्च 'अतप्ततनूर्न तदामोऽश्नुते' 'गोविन्दु ईप्स आयुधानि बिभ्रत्' 'चरणं पवित्रम्' 'प्रतद्विष्णोः' 'अब्जचक्रे सुतसे' इति श्रुतिषु वर्तते । तत्राद्यास्तिस्रस्तु भगवल्लीलाबोधिकाः । चतुर्थी अप्रसिद्धापि पाद्मवाक्यादस्ति । न च 'शङ्खचक्रादिकं धार्यं मृदा पूजाङ्गमेव तत्' इति निबन्धविरोध इति शङ्क्यम् । तप्तचक्रादिधारणस्यापि पूजामात्राङ्गत्वेन पूजा- व्यक्ततापरिहारार्थत्वात्तस्य मृदा धारणेऽपि सिद्धे ब्राह्मणसाधारणमृदैव धारणात् । तप्तादिधारणे तु द्विजकर्मणि तन्नाशयितुमशक्यत्वेनानधिकारप्रसङ्गात् । एतच्च शङ्खचक्रादिधारणवादे एतैः स्फुट- मुक्तम् ॥ ८ ॥ इति श्रीति । अत्र पादस्तर्कपादः ब्रह्मसूत्रपुस्तके तथोल्लेखात् । भाष्ये-आकस्मिकैच्छिकमतनिराकरणवारणाय प्रमाणान्याहुः एवं चेति । वेदा इति वेदान्ता अपि वेदशब्देन संगृहीताः । तथा च षट् शास्त्राणि व्यवस्थापितानीति नाकस्मिकैच्छिकत्वमिति भावः । नानामतानि भगवत्क्रीडासाधनानि । अन्यानि प्रपञ्चरूपाणीति वा इत्युक्तम् । तेन नानामतानां विरोधनिरकरणं पञ्चसु शास्त्रेषु विचारितेषु भवतीति तानि गृहीतानि । शाक्तत्वाय कर्तृशुद्धिमाहुः सांख्यस्येति अपान्तरतमश्चावान्तरप्रलयाधारत्वमुत्पत्तिमत्त्वं च पुरातन इत्यर्थः । प्राचीनेति वेदगर्भम् । यथागममिति प्रकृत आगमा विषयवाक्यानि । न्यायाः सूत्राणि । निष्ठा 1291