अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1400, कुल 2600 में से
संदर्भ में पढ़ें१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५ भाष्यप्रकाशः। तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः। निष्ठां नारायणमृषिं नान्येऽस्तीति वचो मम । निःसंशयेषु धर्मेषु नित्यं संवसते हरिः। ससंशये तु बलवान्बाध्यावसति माधवः ॥ पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ सांख्यं च योगश्च सनातनं वै वेदाश्च सर्वे निखिलेन राजन् । सर्वैः समस्तैऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम्' ॥ इति सर्वेषां भगवत्परत्वं वदतां पञ्चरात्रविदां भगवत्प्राप्तिं च वदताम् । 'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः' इति च वदतामपि वाक्यानां न विरोधः । 'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंशः श्रुत्येकशरणैर्नृभिः । जैमिनीये चे'ति पराशरोपपुराणीयवाक्योक्तस्य श्रुतिविरुद्धांशस्य कौर्मादिवाक्योक्तस्य विमोहनांशस्य च दूषणमुखेनात्र स्फुटीकरणात् । बहुषु भाष्येष्वेवं व्याख्यानदर्शनेन प्राचीन- रश्मिः। पराकाष्ठा भक्तिर्वा । अभेदान्वयात्सर्वात्मभावः । भूमत्वान्नारायणसर्वात्मभावयोरिति भूमत्वेनाभेदात् । ऋषिमिति सप्तर्षिरूपम् । संसंशय इति । संशयान्हेतुबलानिति क्वचित्पाठः । एकान्तेति निश्चितां भक्तिमुपगताः । वेदाश्चेति पूर्ववेदेदान्तसंग्राहकाः । निखिलेनेति अङ्गेन । विश्वमिति सर्वम् । सर्वेषां शास्त्राणाम् । वेदा इति पूर्ववत् । वदतामिति प्रामाण्यं वदताम् । न विरोध इति आकस्मिकैच्छिकतानिवारकत्वात् । श्रुतिविरुद्धांशत्यागः उक्तः तत्र प्रमाणमाहुः अक्षपादेति तेन प्रच्छन्नबौद्धानां स्मृत्युक्तानां बाह्यानां च स्मारणात्तत्रापि श्रुतिविरुद्धोंशस्त्याज्यः सर्वं चेत्सर्वमि- त्युक्तम् । जैमिनीय इति । न चास्य 'जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' इत्युत्तरान्वयेतेति- वाच्यम् । निरीश्वरजैमिनीयस्य पूर्वान्वयितायाः । जैमिनीये विरुद्धांशो हि शब्दमयी देवता प्रातिपदि- कार्थस्तु यः कश्चिदिति साध्यार्थपरता वेदस्येति च । न च 'भावार्थाः कर्मशब्दा' इत्यत्र व्याख्यानतो विशेषप्रतिपत्तेः कुतो वेदविरोध इति शङ्क्यम् । व्याख्यानस्य निरीश्वरार्थत्वात् । श्रुतिविरुद्धेति इदमुपलक्षणं श्रुतिविरुद्धांशस्य । कौर्मादीति । इमानि वाक्यानि 'उत्पत्त्यसंभवात्' इति सूत्रसभायावुक्तानि । रामानुजाचार्यास्तु पञ्चरात्राप्रामाण्यमाशङ्कयात्र तन्निराक्रियत इत्याहुस्ते च प्राचीनवृत्त्यनुसारिण इत्यमुत्पत्त्यसंभवसूत्रोक्तोंशोऽप्यप्रत्याख्येय इत्यत आहुः बहुष्विति । एतादृशेति प्राचीनवृत्तिरेतादृशव्याख्यानवती बहुषु भाष्येष्वेवं व्याख्यानदर्शनात् । अत्रैतादृश- सूत्रव्याख्यानं साध्यम् । तत्कार्यं दर्शनं हेतुः ।'लाघवात् । साध्यं हेतुविषयः । एतादृशसूत्रव्याख्यान- दर्शनमिति । भाष्यवत् । अत्र पक्षे साध्यहेतुमयाभावाद्वैत्वाभासत्वम् । 'पक्षे साध्याभावो बाधः' । यथा गौरश्वत्वात् । 'पक्षे व्याप्यत्वाभिमतस्याभावः स्वरूपासिद्धिः' । यथा ह्रदो द्रव्यं धूमादिति । तदुभयात्मकोऽयं हेत्वाभासः । अत्रोच्यते । हेतावेतादृशशब्दस्य सूत्रव्याख्यानादिभिः सदृशमित्यन्यथा- व्याख्यानविशेषणं तद्वत्त्वं प्राचीनवृत्तावस्तीति न हेत्वाभासत्वम् । न चास्मिन्ननुमाने साध्यसिद्धिः प्रतिबन्धिकेति वाच्यम् । सिषाधयिषाया उत्तेजिकायाः सत्त्वात् । यथा महानसो वह्निमानित्यनुमितिः । तेनेति । श्रुतिसूत्रस्मृतिविमर्शेन । षट्सु द्वयोरङ्गाङ्गिभाव उक्ते जिज्ञासाधिकरण एवेति चतुर्णां 1292