अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1402, कुल 2600 में से
संदर्भ में पढ़ें१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५ भाष्यप्रकाशः। तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे । संपूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमः' इति । एवं पञ्चरात्रेपि यो विरुद्धांशस्तदननुसंधाने विमोहकत्वान्न मुक्तिः । तदनुसंधाय तदंशत्यागे तु तदुक्तसाधनपाकेन साक्षादेव मुक्तिः 'पञ्चरात्रविदः' इति मोक्षधर्मीयवाक्यात् । अतो न कस्यापि वाक्यस्यास्मिन् प्रकारे विरोध इति सर्वं सुस्थम् । रामानुजाचार्यास्तु आद्यं सूत्रद्वयं पूर्वपक्षसूत्रत्वेनाभिधाय, विज्ञानादीति सूत्रद्वयं सिद्धान्तीत्येवनाभिधायैवं व्याचक्रुः । वाशब्दः पक्षविपरिवर्तनार्थः । विज्ञानं च आदि चेति विज्ञानादि परं ब्रह्म । संकर्षणप्रद्युम्नानिरुद्धानां परमब्रह्मभावे परमब्रह्मरूपत्वाङ्गीकारे तदप्रति- षेधः । पञ्चरात्रप्रामाण्याप्रतिषेधः । विप्रतिषेधात् । अस्मिन्नपि तन्त्रे जीवोत्पत्तेर्विशेषेण प्रति- षेधाच्च नास्याप्रामाण्यमिति । एवं व्याख्याने प्रमाणत्वेन पञ्चरात्रस्थवाक्यान्यप्युदाजह्रुः शाण्डिल्याख्यत्वासंबन्धिनीं निन्दां च, 'न हि निन्दा'न्यायेनानुदितहोमनिन्दावत् पञ्चरात्र- प्रशंसातात्पर्यकामूचुः । रश्मिः। वाक्याच्छिवभक्तिः । केशवे इति कभेशश्च केशौ तयोर्वा सुखं यस्मादित्यलौकिकी व्युत्पत्तिः । लौकिकी तु व्याकरणे केशाः सन्त्यस्येति । पञ्चरात्रेति । 'पञ्चरात्रविदो ये तु यथाक्रमपरानृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वा' इति । पूर्वपक्षेति स्वसिद्धान्तः । द्वितीयसूत्रार्थोऽपि पूर्वपक्षार्थः । तादृशसूत्रत्वेनेत्यर्थः । द्वितीयसूत्रोपन्यासपूर्वकं व्याख्यानमाहुः विप्रतीति । अस्मि- न्निति पञ्चरात्रे । प्रतिषेधादिति । यथोक्तं परमसंहितायाम् । 'अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते । व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । स ह्यनादि- रनन्तश्च परमाथैन निश्चितः' इति वाक्यैः पञ्चरात्रस्यैः । एवमिति सर्वांशे प्रामाण्यव्याख्याने । पञ्चरात्रस्येति तान्युक्तानि । अपिशब्देन भारतशास्त्रम् । तद्वाक्यानि तु मोक्षधर्मे ज्ञानकाण्डे 'गृहस्थो ब्रह्मचारी च वानप्रस्थोथ भिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः' इत्यारभ्य महता प्रबन्धेन पञ्चरात्रप्रक्रियां प्रतिपाद्य 'इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविक्ष मति- मन्थानं दध्नो घृतमिवोद्धृतम् । नवनीतं यथा दध्नां द्विपदां ब्राह्मणो यथा । आरण्यकं च वेदेभ्य औषधिभ्यो यथाऽमृतम् । इदं महोपनिषदं चतुर्वेदसमन्वितम् । सांख्ययोगकृतान्तेन पञ्चरात्रानु- शब्दितम् । इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा । भविष्यति प्रमाणं वै एतदेवानुशासनम्' इति । शाण्डिल्येति साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रमधीतवानिति वेदनिन्दा ताम् । नहीति नहि निन्दा निन्दितुं प्रवर्ततेपि तु विधेयं स्तोतुमिति न्यायेन । अनुदितेति 'प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्' इति श्रुतिः । ऊचुरिति । स्मार्गे तु 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजयेत्' इति तृतीयस्कन्ध- निबन्धादुक्त्या प्रसन्ने हरौ सति पश्चादस्मार्थस्म योगः 'आसीज्ज्ञानमयो ह्यर्थः' इति सांख्ये श्रीभागवतात् । सांख्ययोगयोश्चैक्यात् । ज्ञानं सत्यानन्तयोरुपलक्षकम् । अङ्गीचक्रुरिति । सूत्रव्याख्यातुः स्वकिपक्षं दूषयति उत्पत्तीति । नहि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते । न 1294