अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1403, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ भाष्यप्रकाशः। मध्वाचार्यास्त्वेतत्सूत्रचतुष्टयं शाक्तमतनिराकरणार्थत्वेनाङ्गीचक्रुः । तथा चात्र वेदविरुद्ध- द्धानां स्मृतीनामप्रामाण्यान्न ताभिः स्वतः किंचित् फलमिति सिद्धम् ॥ ४५ ॥ इत्यष्टममुत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥ इति श्रीमद्वल्लभाचार्यचरणनलिनचञ्चरीकनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥ रश्मिः । न कर्तुः करणम् । यदि पुरुषोङ्गीक्रियते तत्रापि करणाभावात्तदनुपपत्तिः । विज्ञानादिभाव इति । यदि विज्ञानादिकरणं तत्राङ्गीक्रियते तदा तत एव सृष्ट्याद्युत्पत्तेरीश्वरवादान्तर्भावः । विप्रतिषेधाच्च सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसमिति भाष्यम् । अत्रेति संपूर्णपादे । अप्रामाण्यादिति अंशेन सर्वांशेन चेत्यर्थ