भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1418, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1418

१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १ सू० ७ विभाग उत्पत्तिः । आकाशमपि विकृतं, लौकिकव्यवहारविषयत्वात् । यथा लोके विकृतमात्रमुत्पद्यते । भाष्यप्रकाशः । न्यासेनाकाशोत्पत्तावनुमानमेषोपन्यस्तमित्याशयेनाहुः यथेत्यादि । तथा चाकाश उत्पादवि- नाशशाली, विकृतत्वात् । विकृतो, लौकिकव्यवहारविषयत्वात्, लोकवदिति । तस्मादाकाश उत्पद्यत इति सिद्धम् । नन्वाकाशोत्पत्तिर्विभागशब्दमहिम्ना विभागद्वारा वक्तव्या, स तु ब्रह्मणो व्यापकत्वादशक्यवचन इति कथमुत्पत्तिरिति चेत्, न । बृहदारण्यके मैत्रेयीब्राह्मणे ब्रह्मणः प्रज्ञानघनत्वश्रावणाद् ब्रह्म तादृशं, यदा सृजति, तदा घनत्वं तिरोभावयतीत्याकाशो वि- भज्यत इत्यनुपपत्त्यभावात् । एवमन्यदपि बुद्धिदोषोद्भवं परिहर्तव्यमिति दिक् । रश्मिः ।