अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1419, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into clean Unicode Devanagari Markdown:
वाचस्पतिमिश्रास्तु आकाशकालदिङ्मनःपरमाणवो, विकाराः । आत्माऽन्यत्वे सति विभक्तत्वात्, घटादिवद् इत्यनुमानमाहुः । भास्कराचार्यास्तु 'अचेतनत्वे सति विभक्तत्वात्, पृथिव्यादिवत्' इत्येषमनुमानमाहुः । रामानुजाचार्यास्तु ऐतदात्म्यमिदं सर्वमित्यादिभिराकाशस्य विकारत्ववचनेन तस्या- काशस्य ब्रह्मणः सकाशाद् विभाग उत्पत्तिरुच्यतैव, लोकवत्, लोके यथा, एते देवदत्तपुत्रा इत्यभिधाय तेषु केषांचित् तत उत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात् तद्वदित्येवं व्याकुर्वन्ति । तत् क्लिष्टम् । आकाशस्य तत्र विकारताया अश्रावितत्वात्, ऐतदात्म्यवाक्यस्य तेजआद्युत्प- त्तिवाक्यात् पूर्वमसत्त्वात् तत्रापीदं सर्वमित्यनेनाकाशस्य संग्राह्यत्वाच्चेति । एवमेव तच्चौर- [L9