अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1421, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १५ ‘आकाशशरीरं ब्रह्म,’ ‘स यथाऽनन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः, आकाश आत्मा’ इत्यादिश्रुतयः, ‘समोऽनेन सर्वेण,’ ‘य आकाशे तिष्ठन् सर्वमात्मा’ इत्येवमादिभिरेकवाक्यतां लभन्ते। व्यवहारे त्वज्ञबोधनं वाक्याना- मुपयोगः ॥७॥ इति द्वितीयाध्याये तृतीयपादे प्रथमं वियदधिकरणम् ॥ १ ॥ भाष्यप्रकाशः। दृश्यते’ इति साम्यनिषेधश्रुतेर्ज्यायानाकाशादिति नभोज्यायस्त्वश्रुतेश्च । तथा सत्याकाशस्य यन्नित्यविभुत्वं तदन्यापेक्षयैव, न तु ब्रह्मवदिति फलतीति सर्वसाम्यश्रुत्यैकवाक्यतां लभते । एवमाकाशशरीरत्वश्रुतिर्य आकाशे तिष्ठन्नित्यन्तर्यामिब्राह्मणश्रुत्या, बहुव्रीहिविग्रहेण तस्यैवार्थस्य लाभात्, एवं सति यथा पृथिव्यादीनामाधारतामात्रं, न तु नित्यत्वादिकमपि, तथैवाकाश- स्येति फलति । एवमनन्तत्वोपमानश्रुतावप्यापेक्षिकमेवानन्तत्वमाकाशस्येति पूर्ववत् सर्वसाम्य- श्रुत्यैवैकवाक्यतां लभते, उत्पत्तिमत्त्वेनेवानन्तवत्त्वस्य प्राप्तत्वात्, ‘नमस्तमङ्गुलीयेते’ इत्यादि स्मृतेश्च । एवम्, ‘आकाश आत्मा’ इति प्राणमयवाक्यस्थश्रुतिरपि, ‘इदं सर्वं यदयमात्मा’ इति मैत्रेयीब्राह्मणश्रुत्या । तत्र सर्वसृष्टिश्येवात्राकाशमुद्दिश्यात्मत्वविधानात् । अतस्तत्र सर्वस्येवात्रा- काशस्यापि न नित्यत्वादौ तात्पर्यमपि तु ब्रह्मात्मकत्वे, वस्तुतस्तु प्राणसंचारायाकाशस्यात्मत्वमुच्यते इति तत्रायमर्थ एव न भवतीति, न चाशङ्का न चोत्तरमिति । ननु भवत्वेवमेतासां श्रुतीनां गतिस्तथाप्येवं कथनस्य प्रयोजनं तु किंचिद् वक्तव्यम् । अन्यथा, एवं तात्पर्यकत्वमपि संदिग्ध- मेव तिष्ठेदित्यत आहुः व्यवहारे त्वित्यादि । ‘आकाशशरीरम्’ इति श्रुतिर्हि उपासनार्था। ‘इति प्राचीनयोग्योपास्व’ इत्युपसंहारात् , यद्याकाशं तथा न जानीयात् कथं ब्रह्मशरीरत्वेनोपासीत, अतोऽज्ञानां बोधनमेव वाक्यप्रयोजनम् , एवमन्यत्रापि द्रष्टव्यम् । अतो न तात्पर्ये संदेह इत्यर्थः। रश्मिः। अन्येति । आकाशच्छ्रुतेः । आकाशं शरीरमस्येति शरीरपेक्षया श्रुत्यन्तरस्वारसस्य वक्ष्यमाणत्वादेवकारः। लभत इति तथा च ‘वायुश्चान्तरिक्षं चैतदमृतम्’ ‘आकाशवत्’ इति श्रुत्योश्चतुर्मुखाजन्यत्वेनामृतादिपद- प्रवृत्तिरिति भावः । आकाशं शरीरमस्येति विग्रहादाहुः बहुव्रीहीति । सुबोधिन्यामाकाशशरीरश्रुतेरेवकारः । आधारतेति । ‘यः पृथिव्यां तिष्ठन्’ इत्यादिश्रुतिजाले । फलतीत्याकाशशरीरश्रुतौ फलति । आपे- क्षिकमिति वाय्वाद्यपेक्षिकम् । आकाशवच्छ्रुतिवत् । प्राप्तत्वादिति । अतोऽनन्तपदेन तस्य निषेध इति भावः । प्राणमयेति ब्रह्मवित्पाठोक्ते । नित्यत्वाद्विति आदिशब्देन सर्वगतत्वम् । ब्रह्मा- त्मेति उभयत्रात्मपदात् , एवमादिशब्दायौ वेदितव्यौ । प्रयोजनाभावाच्चोदाहृतौ । प्राणेति । आकाशाद्वायुरित्युक्तवायुरूपविराट्प्राणसंचाराय । तत्रायमिति श्रुतिद्वयं नित्यत्वादिलक्षणः । एवं कथनस्येति आकाशे शरीरत्वादिकथनस्य । प्रयोजनमात्रप्रश्नोयं प्रासङ्गिकः । संदिग्धमिति आकाश- वदित्यादिनिर्णयत्वस्य । अज्ञानामित्यादि अशुद्धचित्तानां चित्तशुद्ध्यर्थमुपासनबोधनम् । एवकारस्तु भक्त्येकलभ्यत्वात् । ज्ञानात्तु दार्ढ्यार्थं स्थूणाखननवदिति ज्ञेयम् । अन्यत्रेति । आकाशवदि- त्यादिवाक्येषु सर्वगतत्वेन नित्यत्वेनामृतत्वेनानन्तत्वेनात्मत्वेन ब्रह्मधर्मेण जगत उपासनं प्रयोजनं द्रष्टव्यम् । तदुक्तं ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इति । अत इति उपासनार्थत्वेन निरवधिनित्यत्वादौ मिथ्यात्वे च नित्यत्वादेस्तात्पर्याभावात् । न तात्पर्यति पूर्वोक्तार्थे न तात्पर्य- संदेहः । इत्यर्थ इति ‘साधैकस्य ब्रह्मशब्दवत्’ इति सूत्रोक्ता ‘तस्माद्वा एतस्मादात्मनः आकाशः संभूतः’ १. द्वितीयसूत्रोदाहृतौ । 1311