अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1434, कुल 2600 में से
संदर्भ में पढ़ें९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० ७ सू० १३ तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ १३ ॥ (२-३-७) आकाशादेव कार्याद् वाय्वादिकार्योत्पत्तिं तुशब्दो वारयति । स एव पर- मात्मा वाय्वादीन् सृजति । कथं तच्छब्दवाच्यतेति चेत् तदभिध्यानात् । तस्य तस्य कार्यस्योत्पादनार्थं तदभिध्यानं, ततस्तदात्मकत्वं, तेन तद्वाच्यत्व- मिति । ननु यथाश्रुतमेव कुतो न गृह्यत इत्यत आह तल्लिङ्गात् । सर्वकर्तृत्वं लिङ्गं तस्यैव सर्वत्र वेदान्तेष्ववगतम् । जडतो देवताया वा यत्किञ्चिज्जायमानं तत् सर्वं ब्रह्मण एवेति सिद्धम् ॥ १३ ॥ इति द्वितीयाध्याये तृतीयपादे तदभिध्यानादेवेति सप्तममधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः। तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ १३ ॥ एवं तैत्तिरीयश्रुत्येकवाक्यतया छान्दोग्येऽपि क्रमेण ब्रह्मणः सकाशात् पञ्चमहाभूतसृष्टिरित्यवधारितम्, तत्रायं संशयः । क्रमसृष्टावाकाशादयः किं स्वतन्त्राः स्वस्वकार्यं सृजन्त्युत परमेश्वरतन्त्रा इति । तत्र तावत् प्राप्तम्, 'आकाशाद् वायुः वायोरग्निः' इत्यादि, 'तत्तेज ऐक्षत' 'बहु स्याम्' इत्यादिश्रुत्या भूतानां देव- तायाश्च हेतुत्वस्य कर्तृत्वस्य कथनात् स्वतन्त्रा एव सृजन्तीति । एवं पूर्वपक्षे सूत्रमुपन्यस्य सिद्धान्तं व्याकुर्वन्ति आकाशादेवेत्यादि । कथमिति । तर्हीति शेषः । तदभिध्यानमिति आकाशरूपः स्यां वायुरूपः स्यामित्येवं स्वस्य तद्रूपाभिध्यानं तच्च, 'बहु स्यां प्रजायेय' इति श्रुत्यैव संग्रहेणोक्तम् । न च तस्य तेजःप्रभृतिसाधारण्यं शङ्क्यम् । तेजःप्रभृतिष्वपि तत्पदोपनिबन्धेन प्रकरणेन च तस्यापि ब्रह्मधर्मत्वनिश्चयात् । सर्वत्र वेदान्तेष्विति । 'स विश्वकृद्विश्वविदात्म- योनिः' । 'यतः प्रसूता जगतः प्रसूतिः' । 'यः पृथिव्यां तिष्ठन्' 'यः पृथिवीमन्तरः' इत्यादिषु । रश्मिः। तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ १३॥ विषयमाहुः एवमिति । अवधारितमिति । देवताया इति ईक्षणलिङ्गात्तेजसोऽपां चाधिदैविकरूपायाः । हेतुत्वस्येतिं तैत्तिरीये हेतुत्वस्य छान्दोग्ये कर्तृत्वस्य । 'तस्माद्वा एतस्माद्' इति तैत्तिरीयम् । 'तत्तेज ऐक्षत' इति छान्दोग्यम् । तर्हीति वाक्यशेषार्थम् । भाष्यं तु लाघवाभिप्रायेण । शोभामुखं गौरवं न दोषाय । तद्रूपेति । अभि- ध्यानमिच्छा स्मृतौ दर्शनात् । तस्येत्यभिध्यानस्य । तेज इति 'तत्तेज ऐक्षत' इत्यादिश्रुतेः । तथा चाभिध्यानस्य न प्राक्तेजआदिपदाभिधानलिङ्गत्वमिति शङ्कमानस्याभिप्रायः । तत्पदेति तेजआदिपदोपनिबन्धनेन । प्रेति 'सदेव सोम्येदमग्र आसीद्' इति श्रुतेः ब्रह्मप्रकरणेन तैत्तिरीये 'ब्रह्मविदाप्नोति परम्' इति श्रुतेर्ब्रह्मप्रकरणेन । तस्येति छान्दोग्योक्तस्य तेजआदेरपि । तथा च 'आत्मा वै पुत्रनामासि' इति श्रुतिविषयस्यापि छान्दोग्योक्तस्य ब्रह्मधर्मत्वमुक्तम् । भाष्ये तद्वाच्यत्वमिति आकाशादिपदवाच्यत्वम् । विशिष्टस्य रूपादिनिविशिष्टस्य घटादिपदवाच्यत्ववत् । यद्वा एवमेव सर्वत्र तत्तद्वाच्यत्वम् । ब्रह्मणो व्यापकत्वात् । तल्लिङ्गादिति । कर्मधारयः षष्ठीतत्पुरुषो वेत्याशयेन व्याकुर्वन्ति स इति । तत् सर्वकर्तृत्वं लिङ्गं तस्मात्, तस्य लिङ्गं तल्लिङ्गं तस्माद्वा । प्रकृते प्रसूतिरिति । महाभूतानि । इत्यादीति । आदिशब्देन मुण्डके 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं 1324