अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1435, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २९ विपर्ययेण तु क्रमोऽत उपपद्यते ॥ १४ ॥ ( २-३-८ ) यथोत्पत्तिर्न तथा प्रलयः, किंतु विपर्ययेण क्रमः । अत उत्पत्त्यनन्तरं भाष्यप्रकाशः। फलितमाहुः जडत इत्यादि । ब्रह्मण इति तत्तद्रूपेण तत्तदन्तःस्थात् तस्मात् । एवमेव पौरा- णिकीषु महदादिसृष्टिष्वपि ज्ञेयम् । भिक्षुस्तु, अत्र स्थितिकर्तृत्वं विचार्यत इत्याह तन्मन्दम् । पूर्वेषु पादेषु ब्रह्मण एव कार- णत्वेऽवधारिते स्थितिप्रलयौ प्रत्यपि सामान्यतः कारणता सिद्धैवेति तदंशे संदेहाभावेनाधिकर- णवैय्यर्थ्यप्रसङ्गात् । अतः पूर्वोक्त एवार्थ इति निश्चयः ॥ १३ ॥ इति सप्तमं तदभिध्यानादेवेत्यधिकरणम् ॥ ७ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते ॥ १४ ॥ ननु तैत्तिरीये छान्दोग्ये च सृष्टेः क्रमो निरूप्यते, न तु प्रलयस्य । नैयायिकादयस्तु समवाय्यसमवायिकारणनाशात् कार्यनाशमङ्गी- कुर्वन्ति; मुण्डके तु विस्फुलिङ्गन्यायेन युगपदेव सर्वोत्पत्तिर्युगपदेव सर्वेषां प्रलयश्च भाष्यते, 'यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद् विविधाः सौम्य भावाः प्रजायन्ते तत्र चैवापियन्ति' इति । तथा सति क्रमिकाणां प्रलये कः प्रकारो ग्राह्य इति संशये मुण्डके ब्रह्मण्येव सर्वप्रलयस्योक्तत्वेन श्रौतलाल्लौकिकं मतं विहाय यौगपद्यपक्षो ग्राह्य इति पूर्वपक्षे प्रवृत्तं सूत्रमुपन्यस्य व्याचक्षते यथोत्पत्तिरित्यादि । सत्यमेवमेव साक्षा- त्सृष्टौ, तथापि सुबालोपनिषदि, 'किं तदानीं तस्मै स होवाच न सन् नासन्न सदसत्' इति सद- सद्विलक्षणं ब्रह्माभिसंधायोच्यते, 'तस्मात् तमः संजायते तमसि भूतादिर्भूतादेराकाशमाकाशाद् वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी' इत्यादि एवं सृष्टिमुक्त्वा अग्रे उच्यते, 'सोऽन्ते वैश्वानरो भूत्वा संदग्ध्वा सर्वाणि भूतानि, पृथिव्यप्सु प्रलीयते आपस्तेजसि विलीयन्ते तेजो वायौ प्रलीयते वायुराकाशे विलीयते आकाशमिन्द्रियेषु' इत्यादि । पुराणेषु च रश्मिः। वायुर्ज्योतिरापः पृथ्वी विश्वस्य धारिणी' इति श्रुतेर्ग्रहणम् । जडत इत्यादीति । आधिभौतिकाद्देव- तायाः, आध्यात्मिकरूपात् ब्रह्मादीति । तृतीयस्कन्धे षड्विंशतितमेऽध्याये दैवात्क्षुभितधर्मिण्या- मित्यादिनोक्तासु । 'एवं परामिध्यानेन कर्तृत्वं प्रकृतेः' इति वाक्यान्वयेश्य् । रामानुजा इममेवात्र सूत्रे चिन्तयन्ति । भिक्षुरिति । भगवान् । पादेष्विति । तत्रत्यजन्माद्यधिकरणेषु । एवेति युष्मीना- युक्तत्वादेवकारः ॥ १३ ॥ इति सप्तमं तदभिध्यानादेवेत्यधिकरणम् ॥ ७ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते ॥ १४ ॥ समवायीति यथा दण्डेन कपालतत्संयोग- योर्नाशे घटनाशः । विषयवाक्यं वक्तुमाहुः मुण्डक इति । अपियन्तीति अपीर्ति लयं कुर्वन्ति । क्रमिकाणामिति आकाशादीनाम् । प्रकार इति तत्रैव चापियन्तीत्यत्र प्रकारः समवाय्यसमवायि- नाशात्कार्यनाशप्रकारो वा युगपत्सर्वनाशप्रकारो वा ग्राह्य इति संशये। लौकिकमिति । नैयायिक- मतं श्रुत्यन्तरसंग्रहेणैव विप्रतिपत्त्यभावायाहुः सुबालेति । किमिति प्रश्ने । तस्मादित्यादि । तस्मात्सदसद्विलक्षणात् । तम इति 'ससर्जाग्रेऽन्धतामिस्रम्' इति वाक्याद्धिरण्मयगर्भसृष्टिः । भूतादिः भूतानामादिः भूतभासावादिराकाशः । युगपत्सर्वनाशातिरिक्तनाशे व्युत्क्रमेणैवेत्याहुः । पृथि- व्यप्स्विति । इन्द्रियेष्विति । इन्द्रियाणि तामसानीति भूतानि तमसीत्यर्थः । भावित्वेन तमस्त्वस्तह्य हिरण्यगर्भश्च राजसत्वेन पुत्रीं यमितुमद्युतसान्धतामिस्रसृष्ट्वौचित्यात् सदसद्विलक्षणे । 1325