भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1436, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1436

३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० ८ सू० १४ भाष्यप्रकाशः । 'वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ हतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ कालात्मना हृतगुणं नभ आत्मनि लीयते' । रश्मिः । तैत्तिरीये त्वात्मनि । अन्यमपि लयप्रकारमाहुः पुराणेष्विति । एकादशे तृतीयाध्याये । वायुना चम्पकादेर्गन्धो ह्रियते इति प्रसिद्धम् । तदा जलादिभ्यो व्यावर्तकस्य गन्धस्याभावात् सांवर्तक- मेघगणेन च सलिलवर्षद्वारा प्रचयसंयोजननेन द्रवत्वजननाद्भूः सलिलरूपा भवति । यतः सलि- लरसः कठिनः सन् पृथिवी भवतीत्युक्तम् । तथा च यथा मृदि शर्करायां च बहुलतरजलप्रक्षेपे जलत्वाय ते कल्पेते तथेयं कल्पत इत्यर्थः । न च पाषाणानां सलिलभावोऽनुपपन्नः । 'सांवर्तको मेघगणो वर्षति स्म शतं समाः । धाराभिर्हस्तिहस्ताभिः' इति पूर्णभावे पङ्कभावे वा सलिल- भावात् । ईश्वरेच्छाया मनसाप्याकलयितुमशक्यरचनस्य निमित्तभूताया अत्रापि निमित्तत्वात् । न च नदीपाषाणादौ सलिलत्वापत्तिः । मैवम् । नदीजलस्य संवर्तकत्वाभावात् । ईश्वरसंजिहीर्षोत्तरी- भूतवर्षण एव संवर्तकत्वात् । एवं च मृतदेहे घटादौ च यादृशसमवायी तद्भावः, कारणान्तरस- मवधाने तु भस्मादिरूपं रूपान्तरमिति द्रष्टव्यम् । तथा सांवर्तकवायुना हृतो रसो यस्य तत् सलिलम् । वायुना रसापहार आर्द्रपटादौ प्रसिद्धः । यद्वा तदिति भिन्नं पदं भूसलिलमित्यर्थः । तर्हि केन हतरसं सूर्यतेजोरूपेण । अनुक्ते काल एव संवर्तक इति सुबोधिन्याः । संवर्तकः प्रलय- कर्ता । एवं सति ज्योतिष्ट्वायोपकल्पते सूर्यरश्मीनां तत्र प्रविष्टत्वात् चन्द्रवत् । ज्योतिषे चन्द्रे सूर्यकिरणप्रवेशः । रसस्य च हृतत्वात् । यथा चार्द्रकाष्ठं वह्निना हतरसं वह्नित्वायोपकल्पते तथा । ज्योतिषो रूपं भास्वरं १शुक्लम् । तत्तमसा तमोगुणस्य तामसेनाधिदैविकरूपेण हतम् । एतच्च तमो मायिकं अर्थान्तरमेव । न तेजःसामान्याभाव इत्युपपादितमन्धकारवादे एतैः । वायावुत्कृष्टे चक्षुषस्तेजो मायाजनिततमसा निहन्यत इति दृष्टम् । यद्यपि तेजसा तमो निहन्यते 'अह्नाय तावदरुणेन तमो निरस्तम्' तथापि आनन्दांशात्तमो भवति तद्गल्यार्थं भगवान् गृह्णातीति 'अवस्थितेरिति काशकृत्स्नः' इति प्रथमाध्यायस्योपान्तसूत्रे मतम् । एतच्च द्वितीयस्कन्धपञ्चमे 'सत्त्वं रजस्तम इति निर्गुणस्य गुणाः' इत्यस्य सुबोधिन्यामस्ति । तेन प्रकृतिगुणभूतं मायिकं तमस्तेजो निहन्ति आनन्दांशाः । एतेन तमसा तु तेजो निहन्यते इति विवेकः । एवं च भास्वररूपं तमसा हतमिति नीरूपं तेजो नीरूपे वायौ प्रलीयते । अथवा तम आसीदित्यत्र तमःपदेन कर्मोच्यत इति समाकर्षसूत्रे स्थितम् । तथा च कर्मणा हतरूपं ज्योतिरित्यर्थः । कर्मविशेषेण तेजोरूपं हियत इति प्रसिद्धम्, सुवर्णरङ्गकारादौ । तथा हतस्पर्श इत्यत्र कार्यानाधारौ देशकालाववकाश- शब्देनोच्येते । तत्र देशेन स्पर्शनाशः । लोकेऽपि देशावकाशे न स्पर्शो भवति, उष्णोऽनुष्णाशीतश्च । स च लोके कर्मणा देशयोः कपालयोरवकाशे सति स्पर्शः संयोगो समवायी सन् भवतीति देशे न स्पर्शस्य संयोगस्य नाशः । न च कर्मणा कपालविभागस्तत आरम्भकसंयोगनाश इति लोकेऽपि विभागेन नाशो न देशेनेति शङ्क्यम् । विभागो न गुणः किं तु तत्स्वरूपामक इति समवाया- भ्युपगमसूत्रे विभागानङ्गीकाराद्देशावकाशेनैव तत्र संयोगनाशः । एवं कालात्मनावकाशेन संयो- गनाशः । कालात्मनेत्यग्रे वक्ष्यमाणत्वाच्चेत्यर्थः । तथा च स्पर्शेन वायुराकाशातिरिक्तोऽनुमीयतेऽवयव- १. रोहितम् । 1326