भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1437, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1437

प्रलयः । कुतः । उपपद्यते । प्रवेशविपर्ययेण हि निर्गमनम् । क्रमसृष्टावे- वैतत् ॥ १४ ॥ इति द्वितीयाध्याये तृतीयपादे विपर्ययेणेत्यष्टममधिकरणम् ॥ ८ ॥ भाष्यप्रकाशः । इत्यादि । पुराणं च श्रुत्युपबृंहणम् । अतो ब्रह्मणः सकाशादुत्पत्त्यनन्तरं तत्रैव प्रलय इति येन क्रमेणोत्पत्तिस्तेन क्रमेण न प्रलयः, किं तु विपर्ययेण क्रमः प्रलयस्य । अत्र पृच्छति, कुत इति । सत्यं श्रुतिपुराणेषूच्यते, परं तत्रापि हेतुर्वक्तव्यो येन बुद्धावारोहेत्, तत्राह, उपपद्यत इत्यादि । तथा च वैशेषिकादिवद् ध्वंसरूपो नात्र प्रलयः, किं तु कारणे प्रवेशरूपः । अतो लौकि- कप्रवेशनिर्गमन्याय एव बुद्धिगोचरीकरणायानुसंधेय इत्यर्थः । तेनेदं सिद्धम्, युगपत्प्रलयोत्तरं युगपत्सृष्टिः, क्रमेण प्रलये तद्विपरीतक्रमेण सृष्टिरिति । तदेतदुक्तं क्रमसृष्टावेवैतदिति । अन्ये तु प्रलयस्य ब्रह्मकर्तृकत्वावधारणार्थमित्याहुः । तन्मन्दम् । यतो वेत्यादिश्रुत्यैव तस्यावधारितत्वेन तत्र संदेहस्यैवानुदयात् । अत उक्तमेव प्रयोजनमिति दिक् ॥ १४ ॥ इत्यष्टमं विपर्ययेणेत्यधिकरणम् ॥ ८ ॥ रश्मिः । स्पर्शाभावे तु वायुर्नभ इति भावः । कालेति कालात्मनावकाशेन कालेन हि तृतीयक्षणरूपेण शब्दस्तिरोभवति कालात्मना च विज्ञानघन इत्यवकाशाभावादाकाश आत्मनि विज्ञानघने । यत्तु तामसाहंकारे इति श्रीभाष्यं तन्न । तन्मात्रजनको हि तामसाहंकारस्तत्र शब्दादीनां तन्मात्राणां लय उचितः कार्यत्वान्न तु नभसः कार्यत्वाभावादित्यर्थः । ननु श्रौते सृष्टिकमे श्रौत एव पूर्वपक्षोक्तलयो युक्तो न पौराण इत्यत आहुः पुराणमिति । समन्वयाध्याये द्वितीयपादे स्मृतेश्चेति सूत्रेण 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति स्मृतिं 'संगृह्य शब्दविशेषादि'ति सूत्रेऽन्तरात्मनि हिरण्मयः पुरुषो न जीवः किं तु ब्रह्मेति यथा व्रीहिर्वा यवो वेति श्रुत्यर्थः स उपबृंहित इति प्रकृतेऽपि तथेत्यर्थः । अत इत्यादि भाष्यं विवृण्वन्ति स्म अत इति । इदं च भाष्ये सौत्रं पदमुपन्यस्तम् । परं न व्याख्यातम् । अतः ब्रह्मणः सकाशाद्भूतोत्पत्त्यनन्तरं प्रलयः । यद्वाऽऽनन्तर्ये पञ्चमी । अस्मा दुत्पत्तेरनन्तरमित्यतः शब्दार्थः । तत्रोत्पत्तिक्रमविपर्ययेण क्रमः यत उपपद्यते लौकिकप्रवेशनिर्गम- न्यायेनेति सूत्रार्थः । प्रवेशेति येन क्रमेण सोपानमारूढः प्रविशति तद्विपरीतक्रमेण सोपान- मवरोहन्निर्गच्छतीति प्रवेशनिर्गमन्यायः । यस्तु शंकरभाष्ये दृश्यते मृदो जातं घटाद्यप्ययकाले मृद्भावमप्येति । अद्गभ्यश्च जातं हिमकरकादि अद्भावमप्येतीत्युक्तः स न ग्राह्यः । अनेकपदार्था- भावात् परंपराभावेनादृष्टान्तत्वादित्येवकारार्थः । एवकारेण युगपत्सृष्टिव्यवच्छेदः । अन्य इति माध्वाः । 'कर्ता प्राणादिकस्यास हन्ता भूम्यादिकस्य च । यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर- उच्यते' इति भाल्लवेयश्रुतिप्रामाण्यादेवमाहुरित्यर्थः । संदेहस्यैवेति । एवकारस्तु स्वाप्ययसूत्रेण्येव- मिति । उक्तमिति सृष्टिक्रमात् लये क्रमवैपरीत्यम् । दिगिति । रामानुजाचार्यास्तु 'एतस्मा- ज्जायते प्राणः' इति मुण्डकोक्ता सृष्टिः परंपरयाप्युपपद्यते इति पूर्वपक्षे सूत्रमवतारयन्ति स्म । तु- शब्दोऽवधारणे । अव्यक्तमहदहंकाराकाशादिक्रमाद्विपर्ययेण क्रमो मुण्डके प्रतीयते स च क्रमस्तद्रूपाद्ब्रह्मणस्तत्तत्कार्योत्पत्तेरेवोपपद्यते, परंपरया कारणत्वे एतस्मादिति पदश्रुतिं सर्वेषां प्राणादीनां ब्रह्मानन्तर्यश्रवणमुपरुन्ध्येतेत्याहुः ॥ १४ ॥ इत्यष्टमं विपर्ययेणेत्यधिकरणम् ॥ ८ ॥