अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1451, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४५ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥ (२-३-१०) ननु जीवोऽप्युत्पद्यतां, किमिति भाक्तत्वं कल्प्यत इति चेत् न । आत्मा नों- त्पद्यते । कुतः । अश्रुतेः । न हि आत्मन उत्पत्तिः श्रूयते देवदत्तो जातो, भाष्यप्रकाशः । नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥ पूर्वाधिकरणे जीवस्य नामरूपविशेषसं- बन्धाभावाज्जीवस्य नोत्पत्तिरित्युक्तम् । तद्युक्तं न वेति संदेहे देवदत्तादिनाम जीवस्यैव, न शरीरमात्रस्य, मृते देवदत्ते तदीयगयाश्राद्धादिकरणानुपपत्तेः । एवं नामसंबन्धे तत्र सिद्धे सोऽप्युत्पद्यतां तदेतदाहुः ननु जीवोपीत्यादि । समाधिं व्याकुर्वन्ति नेत्यादि । तथाच 'अङ्गादङ्गात् संभवसि हृदयादधि जायसे आत्मा वै पुत्रनामासि त्वं जीव शरदः शतम्' इत्या- [L1